पृष्ठम्:भामती.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ऋ.१ या ५ख.३]
[भामती]
[७४]

अष्यनित्यसा व्याख्याता । तस्माभृत्यानुकरणवन् पद्माद्यनु कारणम् । यथा चि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिश्यमाणा ऽनुकरोति नर्तकी, न तु तदेव व्य नक्ति । एवं यादृशीमानुपूर्वी वैदिकानां वर्णपदादीनां क रेत्यधापयिता तादृशीमेवानुकरोति माणवको, न तु ता मेवेञ्चारयति । श्राचार्यव्यक्तिभ्येो माणवकव्यक्तीनामन्य त्वात् । तस्मान्नित्यानित्यवर्णवादिनां न लैौकिकवैदिकप । ट्वाक्यादिपैौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषखा वन्याखातन्वये विप्रतिपत्तिः । यथाज्ञः । ‘यत्नतः प्रतिषध्या नः पुरुषाणां खतन्त्रता’ । तत्र सृष्टिप्रलयमनिच्छन्ता जैमिनीया वेदाध्ययनं प्रत्य स्मादृशगुरुशिष्यपरम्परामविच्छिन्ना(१)मनादिमाचक्षते । वै मासिक तु मतमनुवर्तमानाः श्रुतिस्मृतीतिच्द्दासादिसिद्धस्सुष्टि प्रलयानुसारेणानाद्यविद्यापधानलब्धसर्वशक्तिज्ञानस्यापि प रमात्मने नित्यस्य वेदानां येानेरपि न तेष खातन्त्र घूर्वपूर्वसर्गानुसारेण तादृशातादृशानुपूर्वीविरचनात् । यथा चि यागाद्विब्रह्मचल्याट्ये ऽर्थानर्थचेतवा ब्रह्मवित अपि न सर्गन्तरे विपरीयन्ते, नचि जातु का चित् सगे ब्रह्मच्छ्त्या ऽर्थचेतुरनर्थचेतुद्याश्वमेधेो भवति, अमिर्वी खेदयति, आ पेो वा दच्छन्ति, तद्दत् । यथा ऽच सर्गे नियतानुपूर्ये वे दाध्ययनमभ्युद्यनिश्रेयसचेतरन्यथा तदेव वाग्वञ्जतया ऽन र्थचेतुः, एवं सर्गन्तरेष्वपति, तदनुरोधात् सर्वशेपि सर्व शक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान् विरचयन्न खतन्त्रः । पुरुषास्वातन्यमाचं चापैरुषेयत्वं रोचयन्ते जैमिनीया च


(१) मविच्छिन्नामिच्छन्तो वेद-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८१&oldid=134775" इत्यस्माद् प्रतिप्राप्तम्