पृष्ठम्:भामती.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा. १ख. २]
[भामी]
[६८]

तवाक्यकुतुमग्रथनार्थतामेव दर्शयति । “वेदान्तेति । वि चारस्याध्यवसानं स्वासनाविद्याद्वयेच्छेदः । सतेो चि ब्र ह्मावगतेर्निवृत्तिराविर्भवः। तत्किं ब्रह्मणि शब्दादृते न मा नान्तरमनुसरणीयम्। तथा च कुतो मननं, कुतश्च तदनुभवः साक्षात्कार इत्यत आच । “सत्सु तु वेदान्तवाक्येष्वि'- ति । अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् । शब्दाविरोधिन्या तदुपजीविन्या च या विवेचनं मनम्। युक्तिस्वार्थपतिरनुमानं वा । स्यादेतत् । यथा धर्मे न पुरुषबुदिसाचाय्यम्, एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत श्रा च । “न धर्मजिज्ञासायामिवे'ति । “श्रुत्वाद्य' इति । श्रुतीतिचासपुराणस्मृतयः प्रमाणम् । अनुभवेन्तःकरणवृ तिभेदो ब्रह्मसाक्षात्कारस्तस्याविद्यानिवृतिद्वारेण ब्रह्मख रूपाविर्भावः प्रमाणफलम् । तच फलमिव फलमिति ग मयितव्यम् । यद्यपि धर्मजिज्ञासायामपि सामग्याँ प्रत्यक्षा दीनां व्यापारस्तथापि साशान्नास्ति । ब्रह्मजिज्ञासायां तु साक्षाद्नुभवादीनां संभवे ऽनुभवार्था च ब्रह्मजिज्ञासेत्याच । “अनुभवावसानत्वात्' । ब्रह्मानुभवेो ब्रह्मस्वादशात्कारः पर मपुरुषार्थे निष्टनिखिखदुःखपरमानन्दरूपत्वादिति । ननु भवतु ब्रह्मानुभवार्थी जिज्ञासा, तदनुभव एव त्वशका, ब्रह्मणस्तद्विषयत्वायेोग्यत्वादित्यत श्राह । “भूतवस्तुविषयत्वाच ब्रह्मविज्ञानस्' । व्यतिरेकसाक्षात्कारस्य विकरूपरूपे (१) विषयविषयिभावः । नन्वेवं धर्मज्ञानमनुभवावसानं, (२) तदनु भवस्य खयमपुरुषार्थत्वात्, तदनुष्ठानसाध्यत्वात् पुरुषार्थस्य


(१) विकल्पो-पा० १ । ४ ।

(२) धर्मज्ञानमात्रादेव सिद्धमनुभवावसानम्-पा० ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५&oldid=134733" इत्यस्माद् प्रतिप्राप्तम्