भाविना वाफ्येन विहिता कर्मभावनां विपरिवर्तमानोपरित्र नैर्वाक्यैरनूद्यते । न च प्रयोजनभावादननुवादः प्रमाणसि इस्याप्रयोजनस्याननुयोज्यत्वात्कर्मभावनाभेदे चानेकापूर्वक स्पनाप्रसङ्गादेकापूर्वावान्तरव्यापारमेकं कर्मेति प्राप्तम् । एवं प्राप्तउच्यते । परस्परानपेक्षाणि दि समिदादिवाक्या नाति सर्वाण्येव प्राथम्यार्षाण्यपि युगपदध्ययनानुपपत्तेः क्र मेणाधीतानति । न त्वयमेष प्रयोजकः क्रमः । परस्या रापेक्षाणामेकवाक्यत्वे वि प्रयोजकः स्यात् तेन प्राथम्या भावात् प्राप्तमित्येव नास्तीति कस्य कोनुवादः। कथं चि द्विपरिवृत्तिमात्रस्यैत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवाद सामथ्र्याभावात् । गुणश्रवणे वि गुणविशिष्टकर्मविधाने वि धिगैौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षा यां विपरिवृत्तेरुपकारो यथा दध्ना जुशेतीति दधिविधि परे वाक्ये विपरिवृत्यपेक्षायामग्निहोत्रं जुचोतीति विद्धित स्य लोमस्य विपरिवर्तमानस्यानुवादः । न चात्र गुणी दः समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् । अगृह्यमाणविशेषतया च किं वचनविदितं किं कर्मानु वादेन कस्य गुणविधित्वमिति न विनिगम्यते । न चापर्व नाम ज्योतिरादिवदिधानासंबन्धं प्रथममवगतं यतः पूर्व बुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात् संज्ञातो व्यवछि न्द्यात् । किं तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात् कर्मनामधेयतां प्रतिपद्यमाना अख्यात स्यानुवादत्वे ऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्य
पृष्ठम्:भामती.djvu/५८८
दिखावट