ते । किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणे विधीयते, उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयतइति । किं तावत्प्राप्तं , द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधं विधिरौरव प्रसङ्गात् कर्मान्तरापूर्वान्तरकल्पनागैौरवप्रसङ्गाच्च न क र्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः। न चोत्पतिशिष्टामिक्षागणावरोधात्तत्र वाजिनमलब्धावका शं कर्मान्तरं गोचरयतीति युक्तम् । उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिशवाजिनयोरुत्पत्तै समं शिष्यमाणत्वेन नामिशायाः शिष्टत्वम् । तत्कथमनयावरुवं कर्म न वा जिनं निविशेत् । न च वैश्वदेवेत्यत्र चैत आमिशासंब न्धो विश्वेषां देवानां येन वाजिनसंबन्धात् वाक्यगम्या इचवान् भवेदुभयोरपि पदान्तरापेशप्रतीतितया वाक्यगम्य त्वाविशेषात् । न खलु वैश्वदेवीत्युक्ते आमिशापदानपेशा मामिशामध्यवस्यामः । अस्तु वा भृतत्वं तथापि वाजि भ्य इति पदं वाजमनमामि तदेषामस्तेति व्युत्पया तत्संबन्धिने विश्वान्देवानुपलक्षयति । यद्यपि विश्वेदेवशब्दा द्वाजिपदं भिन्नं येन च शब्देन चोदना तेनैवोद्देशे देवतात्वं न शब्दान्तरेण। अन्यथा ऽथैकत्वेन स्वर्यादित्यपदयोः व्य दित्यचवरेकदैवत्वप्रसङ्गात् । तथापि वाजिनितीनेः सर्व नामार्थं स्मरणात् संनिषितस्य च सर्वनामार्थत्वाद्विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैने वाजिपदेनोपस्थाप्या(?) न तु स्ह्र्यादित्यपदवत्स्वतन्त्रास्तया
(१) उपस्थाप्यन्त इति १ उपस्थाप्येरन्निति–पा९ २ ।