आमुहिकफलोपभोगसमर्थाधिकारी गम्यते । तत्राधिका रस्योक्तेन क्रमेण निराकरणदृ असतोपि प्रतीयमानस्य विचारासस्यपायतामात्रेणावस्थानादनेन वाक्येन देहात्म भावप्रविलयस्तस्परेण क्रियते । गोदोचनेन पशएकामस्य प्रणयेदित्यत्राप्यापाततो(१) ऽधिकृताधिकारावगमादधिकारि भेदनविलयः । निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानि सांग्रचण्या यजेत ग्रामकाम इत्या दोनि न सांग्रचण्यादिप्रवृत्तिपराण्यपि पायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि । यथा विषं भुङ्क्ष्व मा ऽस्य गृधे भुव इति । तथा च रागाद्याक्षिप्तप्रवृत्तिप्रतिषेधेन श यस्य शखत्वमप्युपपद्यते रागनिबन्धनां कृपायोपदेशद्वारेण प्रवृत्तिमनुजानतो() रागसंवर्धनदशावत्वप्रसङ्गः। तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधत् शास्त्रं शास्त्रं भवेत् । । तस्या त्कर्मफलसंबन्धस्याप्रमाणिकत्वादनादिविचित्राविद्यासहकारि ण ईश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति । कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वादिधेस्तस्य चाधि कारमन्तरेणाप्युपपत्तेः । नहि योयः प्रवर्तयति स सर्व धिक्रुतमपेक्षते । पवनादे प्रवर्तकस्य तदनपेक्षत्वादिति श वामपाचिकीर्धरा । “तत्र च विधिश्रुतेर्विषयभावोपगमा द्यागः खर्गस्योत्पादक इति गम्यते” । अन्यथा ह्यननुष्ठो त्वको याग आपद्येत । अयमभिसंधिः । उपदेशो हि विधिः । यथोक्तं तस्य ज्ञानमुपदेश इति । उपदेशश्च नि
(१) आपातत इति १ नास्ति ।
(२) अनुजानतः शास्त्रस्येति-पा० १ ।