पृष्ठम्:भामती.djvu/५३९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ३ पा. १७.८]
[भामती]
[५२४]

क्षपयिो ऽनुपभुक्तकर्मवशादिशवर्तन्तइति । तत्रेष्टादीनां भोगेन समूलकाषं कषितवान्निरनुशया एवानुभुतकर्मव शादावर्तन्तइति प्राप्तउच्यते । “सनुशया एवावर्तन्त’इति । कुनः । दृष्टानुसारात् । यथा भाण्डथे मधुनि सर्पिषि वा शालिते ऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्त व्यम् । न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति । यथा सेवको बस्तिकावीयपदातित्रातपरिवृतो मशराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितु मर्यतीति दृष्टं तन्मूला च लैकिकी स्मृतिरिति दृष्टद्युति भ्यां सानुशया एवावर्नन्तइति। तदेतदूषयति । “न चैतदि ति"। एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयतः शब्दैकगयेथे न सामान्यतोदृष्टानुमानावसर इत्यर्थः । शेषमनिरोचितार्थम् । पूर्वपशचेतुमनुभाषते । ‘यदप्युक्तं प्रायण’मिति । दूषयति । "तदप्यनुशयसद्भावेति । रम णीयचरणाः कपूयचरण इत्यादिकयानुशयप्रतिपादनपरया धृत्या विरुद्धमित्यर्थः । "अपि चेत्यादि । इच जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते युगपचेदेकप्रघट्टकेन । प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् । युगपदेव तस्फचानि भुज्येरन् । तस्मादुपभोगपर्यायदर्शनाद् बलीय सा दुर्बलस्याभिभवः कल्पनयः । एवं विरुद्वजातिनिमित्त पभोगफलेष्वपि कर्मसु द्रष्टव्यम् । न चाभिव्यक्तं च कर्म फखं न दत्ते इति च संभवति । फलापजनाभिमुख्यं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३९&oldid=141547" इत्यस्माद् प्रतिप्राप्तम्