पृष्ठम्:भामती.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ२ पाः३ ६.४३]
[५०३]

तत्प्रतिबिम्बं बिम्बभावे ऽव(१)तिष्ठते, न कृपाणे प्रतिबिम्बित मप्येवमविद्योपधानविगमे जीवे ब्रह्माभाव इति सिद्धे जीवो ब्रह्मशइव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थः । सप्तदश संख्यापरिमितो राशिर्गणः सप्तदशकः । तद्यथा, बुद्विकर्म न्द्रियाणि बाह्वानि दश बुद्धिमनसी वृत्तिभेदमात्रेण भिन्ने अप्येकीकृत्यैकमन्तःकरणं शरीरं पच्च विषया इति सप्तद शको राशिः । अनुज्ञविधिरभिमतो न तु प्रवृत्तप्रवर्तना । अपैरुषेये(२) प्रवर्तयितुरभिप्रायानुरोधासंभवान् । क्रत्वर्था याममषोमीयहिंसायां प्रवृत्तप्रवर्तनानुपपत्तेश्च । पुरुषार्थेषि नियमांशे ऽप्रवृत्तेः । "कःपुनर्देवसंबन्ध ” इति । नचि कूट स्थनित्यस्यात्मनोपरिणामिनोति देहेन संयोगः समवायो वा ऽन्यो वा कश्चित्संबन्धः । सकलधर्मातिगत्वादित्यभिसंधिः । उत्तरं “देशादियं संघातोचमेवेयात्मनि विपरीतप्रत्ययो पत्तिः' । अयमर्थः । सत्यं नास्ति कश्चिदात्मनो देवादिभिः पारमार्थिक संबन्धः, किं तु बुद्धादिजनितात्मविषया वि परीता वृत्तिरदमेव देवादिसंघात इत्येवंरूपा । अस्यां दे बादिसंघात आत्मतादात्म्येन भासते । सोयं सांवृतस्तादा म्यलक्षणः संबन्धे न पारमार्थिक इत्यर्थः । गूढभिसंधियो दयति । "सम्यग्दर्शनस्तचं’ति । उत्तरं “न तस्येति । य दि क्षमस्थूलदेचादिसंघातो ऽविद्योपदर्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्यग्दर्शनमभिमतमद्वा तदन्तं प्रतिन विधिनि


(१) भावेनाव-पा० १ २ ।
(२) अपौरूषेये वेद-पा० ।१।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०८&oldid=141515" इत्यस्माद् प्रतिप्राप्तम्