जनषु तावत्यश्चजनशब्दस्य प्रथमः प्रयोगों लोकेषु इष्ट इ त्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधाया भ्युपेत्य प्रथमप्रयेगाभावं समाधत्ते । "शक्येङ्गिदादिवदि”- ति । आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्त वानि सिञ्चन्ति परमार्थतस्तु पञ्चजना वाक्यशेषगत - वेत्याशयवानाच । "कैश्चित्विति । शेषमतिरोचितार्थम् ॥
कारणत्वेन चकाशदिषु यथा व्यपदिष्टोक्तेः ॥ १४ ॥
अथ समन्वयल शणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता वि तस्यः स्थानमविरोधलक्षणमित्यत आह । “प्र- तिपादितं ब्रह्मण’ इति । अयमर्थः । नानैकशाखागततत्त द्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तर विरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादने न (१) प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः । प्रासङ्गिकं तु तत्र ३ सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः । तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते । इव तु वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योन न समन्वयः सेडुमर्चति । तथा च न जगत्कार णत्वं ब्रह्मणे लक्षणं न च तत्र गतिसामान्यं न च त लिइये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधा विरोधाभ्यामुक्ताद्याक्षेपसमाधानाभ्यां समन्वय एवंपपाद्यत
(१) प्रतिपादनेन-पा० १॥