पृष्ठम्:भामती.djvu/२१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[श्र. १पा.३ख.१३]
[भामती]
[२०६]

ब्रह्म वेद ब्रह्मव भवतीति श्रुतेः सर्वगतपरब्रह्मवेदने त ज्ञावापत्ते स सामभिरुवीयते ब्रह्मखेोकमिति न देशविशे षप्राप्तिरुपपद्यते । तस्मादपरमेव ब्रह्मच ध्येयत्वेन चेद्यते । न चेक्षणस्य लेोके तत्वविषयत्वेन प्रसिद्देः परस्यैव ब्रह्मण स्तथाभावाद् ध्यायतेख तेन समानविषयत्वात्परब्रह्मविषयमे व धानमिति साम्प्रतम् । समानविषयत्वस्यैवासिद्धेः । परो चि पुरुषेो ध्यानविषयः, परात्परस्तु दर्शनविषयः । न च। तत्वविषयमेव सर्वत्र दर्शनम् । अनृतविषयस्यापि तस्य द र्शनात् । न च मननं दर्शनं, तच तत्त्वविषयमेवेति साम्प्र तम् । मननाङ्गेदेन तत्रतत्र दर्शनस्य निर्देशात् । न च मननमपि तकर्तापरनामावश्यं तत्त्वविषयम् । यथाङ्गः । ‘तकें ऽप्रतिष्ठ' इति । तस्मादपरमेव ब्रह्मच ध्येयम् । तस्य च

परत्वं शरीरापेक्षयेति । एवं प्राप्त उच्यते ।
अर्थ श्रोत्सर्गिक तत्त्वविषयत्वं तथेश्रुतेः ।

ध्यानस्य हि साक्षात्कारः फलम् । स् तस्तत्त्वविषयः । का चित्तु बाधकेोपनिपाते समारोपितगेच रेरा भवेत् । न चासत्वपवादे शक्य उत्सर्गस्त्यक्तुम् । तथा पवास्य तत्त्वविषयत्वात्तत्कारणास्य ध्यानस्यापि तत्त्वविषयत्वम्। अपि च वाक्यशेषेणैकवाक्यत्वसंभवे न वाक्यभेदेो यज्य ते । संभवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात् सम भिव्याचाराचैकवाक्यता । तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् । तस्मात्तु परः पुरुषेो ध्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१३&oldid=139396" इत्यस्माद् प्रतिप्राप्तम्