पृष्ठम्:भामती.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा १ रु. २५]
[१५५]

मान्चाङ्गेण्या वृत्त्या ब्रह्मण्येव वर्ततइति दर्शयति । “श्रपर श्राचे’ति । तथा,ि षडशरैः पादैर्यथा गायत्री चतुष्पदा एवं ब्रह्मापि चतुष्याद् । सर्वाणि हि भूतानि स्थावरजङ्ग मान्यस्यैकः पादः । दिवि दद्येतनवति चैतन्यरुपे खात्म नीति यावत्, चयः पादा । अथवा दिव्याकाशे त्रयः पा दाः । तथाहि श्रुतिः । ‘इदं वाव तद्यायं बहिङ्कर्दा पुरुषा दाकाशस्तद्धि तस्य जागरितस्थानं जायत्खख्वयं बाह्यान् प दार्थान् वेद तथा ऽयं वाव स येोयमन्तःपुरुष श्राकाशः’ शरीरमध्यइत्यर्थः, ‘तद्धि तस्य खप्रस्थानं तथा ऽयं वाव स ये यमन्तर्तृदय श्राकाशः' इदयपुण्डरीक इत्यर्थः, तद्दि तस्य सुषुप्तिस्थानम् । तदेतत्रिपादस्यामृतं दिवो'युक्तम् । तदेवं चतुष्पात्वसामान्याङ्गायत्रीशब्देन ब्रहोच्यते इति । “अप्ति न्पशे ब्रहौवाभिति'मिति । ब्रह्मपरत्वादभिहितमित्युक्तम् । “षविधेति । भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट् प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते । “पञ्च ब्रह्मपुरुषा इति च हृदयस्तुषिषु ब्रह्मपुरुषश्रुतिर्बह्मसंबन्धितायां विव हिनायां संभवति” । अस्यार्थः । हृदयस्यास्य खलु पञ्च स्तुषयः,(१) पञ्च छिद्राणि । तानि च देवैः प्राणादिभी(२ रच्यमाणानि खर्गप्राप्तिद्दाराणोति देवस्तुषयः । तथाचि, हृदय स्य यत्प्राङ्मुखं छिद्रं तत्स्थे येो वायुः स प्राणस्तेन हि प्राय


(१) पञ्चदेवसुषयः-पा० 3 । ४ ।

(२) प्राणादित्यादिभी-पा० २ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६२&oldid=137038" इत्यस्माद् प्रतिप्राप्तम्