पृष्ठम्:भामती.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ ष.१ख.२२]
[भामती]
[१४४]

तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः ॥

श्रस्य लेोकस्य का गतिरिति प्रश्रेोत्तरे ‘श्राकाश इति शिवाचेत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात्, ‘सर्वा णि च वेत्यादीनां तु तद्विशेषणतया गुणत्वाद्, गुणे त्वन्याय्य कल्पनेति बहन्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि। अपि च ‘श्राकाश इति होवाचेत्युत्तरे प्रथमावगतमाकाशपद्म नुपञ्जातविरोधित्वेन तदनुरक्तायां बुद्धेौ यद्यदेव तदेव वा कवगतमुपनिपतितं तत्तदुपजातविरोधि तदानुगुण्येनैव व्य वख्यातुमर्चति । न च का चिदाकाशशब्दे भक्तया ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गा यां घोष इत्यत्र गङ्गापदमनुपपत्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् । संभवशेोभयत्र तुल्यः । न च ब्रह्मण्यप्याकाशशब्देो मुख्यः । अनेकार्थ त्वस्यान्यायत्वात् । भतया च ब्रहह्माण प्रयागेोपपत्ते । लाक चास्य नभसि निरूढतरत्वात् तत्पूर्वकत्वाञ्च वैदिकार्थप्रती-| तैर्वेपरोत्यानुपपत्तेः । तदानुगुण्येन च सर्वाणि च वेत्यादीनि भाध्यछता खयमेव नीतानि । तस्राहूताकाशमेवात्रेोपाख्य त्वेनेगपदिश्यते, न परमात्मेति प्राप्तम् । एवं प्राप्त ऽभिधी यते । श्राकाशशब्देन ब्रह्मणे ग्राहणं, कुतः, तलिङ्गात् ।

सामानाधिकरण्येन प्रश्नतत्प्रतिवाक्ययेोः ।
पैौवपर्यपरामशत् प्रधानत्वेपि गैोणता ॥

यद्यप्याकाशपदं प्रधानार्थ तथापि यत् पृष्टं तद्देव प्रति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५१&oldid=136795" इत्यस्माद् प्रतिप्राप्तम्