पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
मङ्गलाचरणम्

आदयो येषां तानि दिक्कालादीनि-- तद्गुणसंविज्ञानबहुव्रीहिः- अन्यथा तेषामप्राधान्येन विनाभावे शास्त्रविरोधः स्यात् - तैरनवच्छिन्ना अपरिक्लृप्ता- विभुत्वान्नित्यत्वादेकत्वाञ्च देशतः कालतो वस्तुतश्चापरिच्छिन्नेत्यर्थः - अत एवानन्ताऽपरिमिता त्रिविधपरिच्छेदशून्यत्वादखण्डदण्डायमानेत्यर्थः - एतेन सजातीयविजातीयस्वगतभेदत्रयराहित्यमर्थात् सूचितमिति विज्ञेयम् - आनन्देति पाठे आनन्दचिच्छब्दयोर्द्वन्दान्ते श्रूयमाणो मात्रशब्दः प्रत्येकं संबध्यते - तथा चानन्दमात्रा आनन्दमयी चिन्मात्रा ज्ञानघना च - घिदेकरसेति यावत् - तादृशी मूर्तिस्तस्यै तद्रूपायेत्यर्थः ; ‘सत्यं ज्ञानमनन्तं ब्रह्म' ’एकमेवाद्वितीयं ब्रह्म' 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात् ’आनन्दमयोऽभ्यासात्' 'सत्यं ज्ञानमनन्तं यत् सानन्दं ब्रह्मकेवल"मित्यादिश्रुतिस्मृतिकदम्बकमत्र प्रमाणमिति भावः ; नात्र बहुव्रीहिराश्रयणीयः। अन्यथा। " इकोऽचि विभक्ता"वितिनुमि "मूर्तिन" इति स्यात् ; न च " तृतीयादिषु भाषितपुंस्कं पुंवद्गालव- स्ये "ति पुंवद्भाव इति वाच्यम् । मूर्तिशब्दस्य नियतस्त्रीलिङ्गत्वे- नाभाषितपुंस्कत्वात् ; तस्माद्यथाश्रुतमेव साधु मन्तव्यम् ; भाषित- पुंस्कत्वस्यानित्यत्वविवक्षायान्तु बहुव्रीहिविहिते तदा न काऽप्यनुप- पत्तिरिति सर्वं सुस्थम् ; तथा स्वानुभूतिरात्मानुभव - एव एकं मुख्य- मद्वितीयं वा - मानं स्वप्रकाशसाधनं - यस्य तस्मै ; स्वयं प्रकाश- संविद्रूपत्वादस्य प्रदीपवत् स्वपरप्रकाशकतया स्वसाक्षात्कारे स्वानुभव एव प्रमाणं न घटादेरिव घक्षुरादिप्रामाणिकत्वमिति भावः । एतेन वृत्तिविषयत्वमेव न तु फलविषयत्वमित्यवधेयम् ; तदुक्तमाचार्यैः-