द्यूतसमाप्तौ च । एकोऽपि च न तिष्ठति। इत्थमुक्तरीत्या। भुवनं
फलकमिव शारप्रवर्तनोचित कोष्टयन्त्रमिव - तस्मिन् । नेयैः प्रवर्त-
नीयैरिति यावत्। प्राणिनः शारा: - द्यूतगूढा इव अक्षोपकरणानी-
वेति यावत् - तैस्साधनैः - नि.-'पल्याणेऽस्त्रीविहङ्गे ना (शारो)
द्यूतगूढे नपुंसकमि 'ति वैजयन्ती। कल्यः कलनासमर्थः देवनचतु-
रश्च । कालः कर्ता अक्षधूर्तश्च गम्यते। रजनिदिवसौ रात्र्यहनी
कर्मणी। द्वावक्षौ पाशकाविव - नि.-'पणोऽक्षेषु गृहोऽक्षास्तु देव-
काः पाशकाश्च त' इत्यमरः । लोलयन् पौनःपुन्येन गृह्णन् विसृजं-
श्वेत्यर्थः। क्रीडति दीव्यति . प्राणिसंयोग वियोगयोः वृद्धिक्षयादीनां
काल एवं कर्तेत्ति भावः ।।
- अत्राक्षाबिवेति स्पष्टोपमालिङ्गात्सर्वत्रोपमितिसमासः - अत
एवोपमालंकारः। यदि चाक्षक्रीडनोपयोगित्वाद्रूपकमेवाश्रयणीय .
मित्यभिमानस्तदैकदेशवर्तिरूपकमुपमात्वङ्गमिति संक्षेपः ।।
मन्दाक्रान्तावृत्तम् ॥
आदित्यस्य गतागतैरह रहस्संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत्॥ ४३
व व्या.--अथ नित्यप्रमत्तोऽयं लोको नैतन्महिमानं ज्ञातुं शक्नोतीत्याह - आदित्यस्येति.--आदित्यस्य सूर्यस्य गतागतैरुदया- स्तमयैरिति यावत् । अहरहः प्रत्यहम् - अहन्यहनीत्यर्थः वीप्सा यां द्विरुक्तिः * अत्यन्त संयोगे द्वितीया । जीवित मायु स्संक्षीयते-