पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
वैराग्यशतके

मिति शेषः । उभयत्रापि कष्टमेवावशिष्टं नत्वन्यात्किंचिदपीत्यर्थः . नि. 'लाभनिष्पत्तियोगेषु बले शल्ये धने फलमि' ति वैजयन्ती ।। तथा मानविवर्जितमभिमानशून्यं यथा तथा - बहुमानविहीन । मितिवा। आशङ्कया आकाङ्क्षया - लोलुपत्वेनेति यावत् । परगृ हेषु काकेन बलिभुजा-तुल्यं काकवत् तेन तुल्यं क्रियाचे द्वतिः' इति वतिप्रत्ययः। भुक्तम् अभिमानत्यागेऽपि न बहुमानपूर्वकं। किंतु सावमानमेव दत्तं परान्नपिण्डमभ्यवहतमित्यर्थः । तथाऽपि। पापक- र्मणां पापात्मनां - पिशुने सूचके येषां तृष्णा अत एव पापिष्ठा इति भावः-यद्वा-पापकर्मणां दुष्कर्मणां - पिशुने प्रवर्तके-इत्यर्थः - एतव्यति रेकेण दुष्कर्मप्रवर्तकान्तराभावादिति भावः । हे तृष्णे विषयस्पृहे । जुभ्भास प्रवृद्धा भवसि । किंत्वद्यापि ईहक्कष्टकर्मप्रवर्तनदशायाऽम .. पीतिभावः। न संतुष्यसि संतुष्टा न भव सि - विरतिं न प्राप्नोषी- त्यर्थः । इतः परमपि किंचिदृष्टकर्म कारयितुमपेक्षाऽस्तीवेति प्रतिभा- तीति भावः ॥ शार्दूलविक्रीडितम् ।।

उत्खातं निधिशङ्कया क्षितितलं माता गिरेातको
निस्तीर्णस्सरितां पतिपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताश्मशाने निशाः
प्रातः काणवराटकोऽपि न मया तृष्णे! सकामा भव।। ३

 व्या.--उत्खातमिति-निधिशङ्कया निक्षेपोऽत्र तिष्ठतीति. भ्रान्त्या। क्षितितलं किंचिदिष्टकादिनिचितभूतलमुत्खातमवदारितं - तत्र न किंचिल्लब्धमित्यर्थः। तथा गिरेर्धातवः मनशिलाद्याः । ध्माताः सुवर्णभावं प्राप्स्वन्तीति घिया अग्नौ मूषायां समूलिका-