पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
कामिनीगर्हणम्

कान्ताकारधरा दीयमभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरण सन्त्यज्यताम् ॥ ४९

 व्या.--अथास्या अनर्थहेतुभूतनदीत्वनिरूपणेन परित्याज्य - त्वमाह - उन्मीलदिति.----तिस्रश्च ताः वळयश्च त्रिवळ्यः इति द्विगु- ‘समासः - यथाह वामनः - · त्रिवळीशब्द संज्ञाचे'ति सूत्रेण सप्तर्षय इतिव ‘दिक्संख्ये संज्ञायामि' ति संज्ञायां द्विगुः। उन्मीलन्त्य उत्पद्यमाना स्त्रिवळ्यो वळित्रयमेव तरङ्गाः - यद्वा त्रित्वसं- ख्यावळ्यस्त्रिवळयः * उत्तरपदलोपी समासः - ता एव तरङ्गा ऊर्म- यस्तेषां - निलया। प्रोत्तुङ्गावत्युन्नतौ - पीनौ पीवरौ च - यौ स्तनौ तयो- द्वन्द्वेन युगळेन हेतुना। उद्गतमुच्चलचक्रवाकयुगलं चक्रवाकाख्यपक्षि - विशेषयुग्मं - यस्याः - स्तनरूपचक्रवाकयुगलेत्यर्थः। वक्त्रमेवाम्बुज- तेनोद्भासते अभीक्ष्णमिति तदुद्भासिनी 'बहुलमाभीक्ष्ण्य मिति णिनिः अभितस्समन्तात् । क्रूरा कुटिलहृदया - नदीपक्षे क्रूरा वक्रगति प्रवाहा-अथवा - अभितस्सर्वतः प्रवर्तमानाः - क्रूरा नक्रादिक्रूरजन्तवो यस्यास्सा। कान्ताकारधरा - कान्तारूपधारिणी। इयं परिदृश्यमाना नदी। अत्रास्मिन् लोके। संसार एवार्णवः - तत्र मज्जनं - नापे - क्षते नाभिलष्यते यदि । तदा अनपेक्षापक्षे - दूरेण संत्यज्यतां दूर - तर एव विसृज्यतां * 'दूरान्तिकार्थेभ्यो द्वितीयाचे' ति विकल्पात्तृ - र्तीया। अन्यथा तत्समाश्रयेण अर्णवमज्जनमेव सिद्धं स्यादिति भावः।।    अत्र समस्तवस्तुवर्ति सावयवरूपकालंकारः ।।        शार्दूलविक्रीडितम् ॥ 11