पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थः सर्गः।


सद्यः सिद्धमनिष्टहारि हितकृत् कोष्णं हिमोद्भेदनं
 मन्दोद्गालितमम्बरे दहनकृद् ग्राव्णां गणेऽप्याहि[१]तम् ।
दोषोत्सादनमादधाति रुचिकृत् तेजोमयं भेषजं
 नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः॥ ५० ॥

इति सुखमवबोधितोऽथ सूतैः
 सुविहितनित्यविधिक्रमो नरेन्द्रः।
अभजत कनकासनं सभायां
 हरिति हरेरुदयाद्रिमर्यमा च ॥ ५१॥

इति कृष्णविरचिते भरतचरिते

तृतीयः सर्गः ॥


अथ चतुर्थः सर्गः।

अथ विश्वम्भरां बाहुरनायासेन भूपतेः ।
दधार तस्य हृदयमायासेन शकुन्तलाम् ॥१॥

स विशुद्धगुणोल्लासिहृदयालम्ब्य[२]पि स्वयम् ।
दुष्प्रापमनुपायेन कन्यारत्नममन्यत ॥ २ ॥

दुष्टसत्त्वप्रशमनीं सैनिकानन्दकारिणीम् ।
ऐच्छत् स मृगयां कर्तुमङ्गव्यायामदायिनीम् ॥ ३ ॥

अथ विश्वास्यधिषणः शतकोटिबलं वहन् ।
उत्तस्थौ लोकपाले(श ? शः) शैलव्यालजिघांसया ॥ ४ ॥

ससम्भ्रमजनोत्थानविज़म्भितघनध्वनि ।
भेजे तदा तदास्थानं प्रावृडम्बरडम्बरम् ॥ ५॥


  1. 'ह',
  2. 'ङ्घच' ग. पाठः