ना[१]यं क्षमोऽहमपि साहसमस्य सोढुं
बाला कथं विषहते विषमायुधस्य ।
ग्रीष्मेण शुष्यति महीरुहि सप्रकाण्डे
कां कां दशां व्रजति कोमलनागवल्ली ॥ ३४ ॥
अस्पृष्टमन्मथकथासु तपस्विनीषु
क्षेमङ्करीष्वनुपजातविनोदलेशा ।
बाला नवोत्पलमृणालशिरीषमृद्धी
गच्छेत् कथं न मदनव्यसनातिभूमिम् ॥ ३५ ॥
कामः पुमानलसलोलविलोचनां तां
पश्यन् कथं रसनिधिः प्रसभं क्षिणोति ।
यद्वा पुरान्तकललाटविलोचनाग्नौ
निर्दग्धमार्दवगुणः कठिनोऽयमासीत् ॥ ३६ ॥
इत्थं कथामनिगमय्य निर्मालिताक्षे
राज्ञि स्थिते स्तिमितचेतास भावनार्द्रे ।
निद्रा दृशः पदमवाप शनैः प्रियेव
माध्वी गता परिणतेन्दुमुखी निशा च ॥ ३७ ॥
उद्भूतकीर्त्तिमथ गौरगुणाभिरामं
सेवानुकूल समयोत्सुकराजहंसम् ।
पद्माकरं मधुकरा इव वन्दिनस्तं
प्राबोधयन्निति मनोहरगीतिभाजः ॥ ३८ ॥
राजेन्द्र ! जागृहि विभातवती त्रियामा
विज्ञापनामनुगुणामवधारयैनाम् ।