पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


वपुषि तस्य निचिक्षिपुरुच्छ्रितं
 मणिसुधातलमेख पुराङ्गनाः ।
विजयमङ्गललाज परम्परा
 कुसुमवृष्टिमित्रामरयोषितः ॥ २ ॥

अनुगुणः प्रसरन् पथि मारुतः
 क्षितिपतेरथिरूढवतो रथम् ।
ध्वजपटाग्रकरेण विनिर्देिशन
 दिशमिवोपदिदेश यियासतः ॥ ३ ॥

कृतयुगस्थितिरेष धुरं बहन्
 दि[१]शिदिशि प्रथितः प्रथयन् गतिम् ।
हरियादरि[२]क्रममुद्रुतः
 स्वयमिवाध्वनि तस्य रथो बभौ ॥ ४ ॥

स्वयममुं परतापकरं प्रभुं
 न परितापयितुं प्रभुरंशुमान् ।
तदपि तस्य धराधिपलक्षणं
 धवलमातपवारणमुद्धृतम् ॥ ५ ॥

कनकदण्डपरिभ्रमितं विभोः
 शशिकरद्युति चामरयोर्द्वयम् ।
प्रणतिविग्रहसंशयितं द्विषां
 हृदयमाशु विभक्तमिवाबभौ ॥ ६ ॥

प्रथममाप स शातमखीं दिर्श
 दिशि दिशि प्रसरन्नपि तेजसा ।


  1. 'दश दिश:'
  2. 'नु' ग, पाठः.