पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीकृष्णकविप्रणीतं

भरतचरितम् ।


प्रथमः सर्गः ।

स्व[१]स्तिप्रसूरस्तु रसोत्तराणां
 छायां मनोज्ञामुपसेदुषीणाम् ।
सञ्चारिणीनां महिताङ्गभाजां
 गवां नियन्त्री परदेवता नः ॥ १ ॥

आदेशिकौ पद्यपथोद्यतानां
 रत्नाकरौ सूक्तिमहामणीनाम् ।
सन्मार्ग सन्दर्शन पुष्पवन्तौ
 वन्दे कवीनां प्रथमौ मुनीन्द्रौ ॥ २ ॥

अस्पृष्टदोषा नलिनीव हृष्टा
 हारावलीव ग्रथिता गुणौधैः ।
प्रियाङ्कपालीव विमर्दहृद्या
 न कालिदासादपरस्य वाणी ॥ ३ ॥


  1. 'स्वस्तिप्रसूः स्वस्तिजननी । रसोत्तराणां रसः शृङ्गारादिः क्षीरादिकं च तत्प्रधानानाम् । छायां बन्धशोभां देहसान्नवेशशोभां च । सञ्चारिणीनां शिष्यादावुपदेशादिना संक्रमणस्वभावानां समन्ततो गतिमतीनां च । महिताङ्गभाजां पूजितैरङ्गैः कलादिरूपैर्मुखादिरूपैश्च युक्तानाम् । गवां वाचां काव्यादिरूपाणां धेनूनां च । नियन्त्री अधिष्ठात्री पालयित्री च । परदेवता सरस्वती श्रीकृष्णश्च ।