पृष्ठम्:भरतकोशः-१.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्कध्वनिः-प्रवन्धः खरैः पदैस्तेन्नताळैयैस्य ताळन्नयं भवेत्। प्रतिभागमङ्कध्वनिरसौ मतः अङ्कमुखभू-अर्थोपक्षेपकः विष्टिमुखमङ्कस्य खिया वा पुरुषेण वा। यदुपक्षिप्यते पूर्व तदङ्कमुखमेिष्यते ॥ को हल: यत्रत्वनुसन्धानमात्रं प्राणत्वेन तदुपयोगितया वृत्तान्तमुच्यते તદુપક્રિષ્ટમહુમુલ अभिनवः । सूनणं सकलाङ्कानां ज्ञेयमङ्कमुखं बुधैः । इति येनैकल सकुलानामङ्कानां सूत्रणं क्रियते तदृङ्कमुखम्। यथा-कामन्दक्यवलेोकेितयो: प्रथमाङ्कतः सौदामनीवार्ताप्रस्तावत: कपालकुण्डलाघोरघण्टादिकथाभिः सकलमेव कथितमङ्कजातम्। सागरः अङ्कावतारः-अर्थोपक्षेपकः अङ्कस्याङ्कान्तरे योगस्त्ववतारः प्रकीर्तितः। अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः । पूर्वाङ्कस्यावसानोक्तकथाविच्छेदपूर्वकम् ॥ श्रवेशेो भाविनोऽङ्कस्य सोऽङ्कावतर इष्यते । समाप्यमान एकस्मिन्नितराङ्कस्य सूचनम् । समासतो हेि नाट्यज्ञैरङ्कावतर इष्यते । यथा-मालविकायां च प्रथमाङ्कवसर्नकै निष्कामान्तं यदुच्यते। पान्रक्यं द्वितीयेऽङ्के तत्सङ्गीतकमादेित: । आरभ्य गणदासादेरविच्छेदेन कल्पितः। अङ्कवतारो विष्कम्भाद्यनन्तरित एव सः । समाप्यमाने पूर्वाङ्गे यथा गौरीगृहाभिधे ॥ भाव्यङ्कनायकावस्थासूचनं तद्विलोक्यते । गौरीगृहे-नागानन्दप्रथमाङ्के । अङ्कास्यम्-अर्थोपक्षेपक - अङ्कमुखमिति नामान्तरम्। तत्न द्रष्टव्यम् अङ्कुरः-करव्यापारः । & भूतवाक्यार्थविषयमुपजीव्य प्रवर्तितः। चित्तवृत्त्यपेक्ोऽङ्गानां व्यापारोऽङ्कर ईरितः ।। कोड्डः ६ अङ्कहारविधिः अङ्गभ्रमरी-नाश्चश्रमरी वेितस्यन्तरितौ पाद्दौ कृत्वाङ्गभ्रमणं तदा। तिष्ठेद्यदेि भवेद्ङ्गभ्रमरी भरतोदेिता । अङ्गभ्रमरी-श्रमरी समपास्थितो यत्र भ्रुं मध्यविवर्तनात् । सत्वरं भ्रमयेद्गातं दण्डपक्षकरावपि प्रयोगवशगौ कुर्यादङ्गभ्रमरिका तु सा ॥ वेम | अङ्गरचना वर्णैयैदृङ्गवर्तनं कायै साङ्गरचना । तस्य वर्णाः सित: नील: पीतः रक्तः। एते प्रधानवर्णाः। संयोगजवर्णा उपवर्णा इत्युच्यन्ते। अङ्गरूपकम्-वाद्यप्रबन्धः यज्ञोच्यते द्विरुद्धाहः ध्रुवाभोगध्रुवास्ततः। क्रमेणैव प्रयोज्यन्ते तद्भवेद्ङ्गरूपकम् ॥ ध्रुवाभोगध्रुवाख्यक्रमशस्ततः। यक्ाङ्गरूपकं प्राह् तत्तेजोन्वयर्द्दीपकम् । হাঙ্ক: अङ्गलता-मेलरागः (हरिकॉंभोजीमेलजन्यः) (आ) स ग रेि ग म प नि ध स. (अव) स नि ध म रेि स. अङ्गसमभ्-पुष्करवाद्ये अङ्गप्रत्यङ्गसंज्ञानांवाद्यानां समवापादनम् धुवाण ग्रहमोक्षेषु कलान्तरकलासु च। यदङ्गं क्रियते वाद्यं तदङ्गसममुच्यते ॥ यत्तु चञ्चत्पुटार्द्दीनां ध्रुवाङ्गेन स्थिताद्विना । साम्यं भवेत्प्रयोगज्ञैस्तदङ्गसममुच्यते । अङ्गहरु-देशीलसाझन् पर्यायात्पाश्चयोर्यत्न तालश्छन्दोsनुसारिणी । नतिगतस्य कन्दर्पधनुर्वल्ली मनोहरा। नर्तक्या क्रियते नृते सोऽङ्गह्र उदाहृतः । अङ्गहारविधिः विनियोगोऽङ्गह्राणां पूर्वरङ्गाङ्गो बुधैः। वर्धमानासारितेषु पाणिकागीतिकादिषु। उत्थापनादेिषु प्रायः श्रेयः परमकाङ्क्षिभिः॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/20&oldid=157812" इत्यस्माद् प्रतिप्राप्तम्