पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ xxxi ]

अथ गीताध्यानम् ।

 ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ॥ अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीमंब त्वामनुसंदधामि भगवद्भीते भवद्वेषिणीम् ॥ १ ॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविंदायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः ॥ २ ॥ प्रपन्नपारिजाताय तोत्रवैत्रैकपाणये ॥ ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३ ॥ सर्वोपनिषदो गावो दोग्धा गोपालनंदनः । पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ४ ॥ वसुदेवसुतं देवं कंसचाणूरमर्दनम् ॥ देवकीपरमानंदं कृष्णं वंदे जगद्गुरुम् ॥ १ ॥ भीष्मद्रोणतटा जयद्रथजला गांधारनीलोत्पला शल्यप्राहवती कृपेण बहनी कर्णेन वेलाकुला ॥ अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्ड वै रणनदी कैवर्तके केशवे ॥ ६ ॥ पाराशर्यवचः सरोजम मलं गीतार्थगंधोत्कटं नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् ॥ लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ७ ॥ मूकं करोति वाचालं पंगु लंघयते गिरिं । यत्कृपा तमहं वंदे परमानंदमा-