पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११ )
लोक प्रथेयमिति कथयित्वा राहुकृतं ग्रहरणं भवतीत्यत्र स्मृति वाक्यं वेदवाक्यं च
प्रतिपादितम् । युक्त्या राहुकृतं ग्रहणं न भवति । परन्तु स्मृतिषु-पुराणेषु वेदेषु
च राहुकृतं ग्रहणं प्रतिपादितमस्त्यतोऽत्र द्वयोमंतयोः समन्वयः -
राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते ।
भूछाया तमसीन्दोर्बरप्रदानात् कमलयोनेः ॥
चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते ।
छादयति शमिततापो राहुश्छादयति तत् सवितुः ॥
आचार्येण कृतः । सिद्धान्तशिरोमण गोलाध्याये भास्कराचार्येण भूभाकृतं
चन्द्रग्रहणम् । चन्द्रकृतं सूर्यग्रहणं प्रतिपाद्य स्मृतिपुराणादिमतेन साकं
समन्वयार्थ -
राहु: कुभामण्डलग: शशाङ्क शशाङ्कगरछादयतीव बिम्बम् ।
तमोमयः
शम्भुवरप्रदानात्सर्वागमानामविरुद्धमेतत् ॥
इति कथितम् । सिद्धान्तशेखरे राहुकृतग्रहणखण्डनार्थमेको 'राहुनिरा-
करणाध्यायः' नामकोऽध्यायोऽस्ति । गोलबन्धाधिकारे महवृत्तानां (पूर्वापरवृत्त-
याम्योत्तरवृत्त क्षितिजवृत्तादीनां) लघुवृत्तानां (मेषादिद्वादशराशीनामहोरात्र-
(वृत्तानि) रचनां विधाय परमेलम्बनावनत्योः स्वरूपं प्रतिपाद्य हक्कूर्मानयनं कृत-
माचार्येण यथाऽत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्तेन गोलबन्ध: प्रतिपादितस्तथैव
सिद्धान्तशिरोमणौ चास्ति । ग्रहअ गोलयोः पञ्च स्थिरवृतानि (पूर्वापरम्,
याम्योत्तरम्, क्षितिजम्, उन्मण्डलम्, बिषुवन्भण्डलम् ) इति प्रतिपादितानि,
एतानि कक्षामण्डलतुल्यानि महद्वृत्तानि ज्ञयानि | ग्रहाणां चलवृत्तानि च ---
=
मन्दनीचोच्च वृत्तानि = ७, भौमादीनां शीघ्रनीचोच्चवृत्तानि = ५ | मन्द-
प्रतिवृत्तानि -- ७, शीघ्रप्रतिवृत्तानि = ५ हग्मण्डलं, हक्क्षेपमण्डलं कक्षामण्डलं
१. शिद्धान्तशेखरे सूर्यचन्द्रयो हरायो राहोरकारणत्वेऽपि लोकमतश्रुति स्मृति संहि
तानां यथैक्यं भवति तथा तत्प्रतिपादनाय राहोरेव ग्राहकत्वं कथ्यते यथा -
विष्णुलून शिरस: किल पोर्दत्तवान् वरमियं परमेष्ठी ।
होमदानविधिना तव तृप्तिस्तिग्मशीतमह्सोरुपरागे ||
भूमेश्छायां प्रविष्टः स्थगयति शशिनं शुक्लपक्षावसाने ।
राहुब्रह्मप्रसादात् समधिगतवरस्तत्तमो व्यासतुल्यः ||
ऊर्ध्वंस्थं भानुबिम्बं सलिलमयतनोरप्यघोत्ति बिम्बं
संसृत्यैवं च मासव्युपरतिसमये स्वस्य साहित्यहेतोः ।