पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३०

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
(११)

न च श्रीपतिरेव निजपूर्ववत्तिनां ग्रन्थकाराणां ग्रन्थेभ्यस्तदुक्तविषयान् छन्दोऽन्तरेण तथैव निबध्य स्वग्रन्ये स्वोक्त्या लिखितवानपितु तत्पूर्ववर्तिनां ग्रन्थकाराणामपि सैव रीतिः । परवत्तिनो भास्कराचार्यादयोऽपि न तां रीतिममुञ्च निति प्रत्यक्षदर्शनादेव स्फुटीभवति ।

यथा भास्कराचार्य:- गरिणताध्यायस्य मध्यमाधिकारे सिद्धान्त ग्रन्थलक्षणं ज्योतिः शास्त्रस्य वेदाङ्गत्व निरूपणं वेदाङ्गानां नामानि वेदाङ्गषु ज्योतिः शास्त्रस्य प्राधान्यं तच्च द्विजैरेव पठनीयमिति सर्व परतोऽपि भचक्रचलन काल-


ऽस्य सर्वथा सहशमेव तथा च प्रकारान्तरेण स्फुट स्थिति दल साधनं श्रीपत्युक्तम् ।

स्पित्यर्धोनयुतात् परिस्फुटतिथे: स्याल्लम्बनं पूर्ववत्
तन्मध्यग्रद्धेच मध्यमतिथो ततस्तु तिथौ ।
स्थित्यर्धेन परिस्फुटेषु जनितेनोनाधिकाद्वाऽसकृत
तत्तिय्यन्तर नाडिकाः स्थितिदले स्तः स्पर्शमुक्तयोः स्फुटे ॥

अस्य लोकस्य द्वितीयं चरणं शुद्धं नास्ति | प्रकारोऽयं ब्रह्मगुप्तोक्तस्या-

स्फुटतिथ्यन्ताल्लम्बनमसकृत् स्थित्यर्धहीनयुक्ताद्वा
तत्स्फुट विक्षेपकृत स्थित्यर्घोनयुततिथ्यन्तात् ।।
तत्स्पष्टतिथिच्छेदान्त रे स्फुटे दिनदले विहीनयुतात् ।
स्व विभर्धिनासकृदेवं स्पष्टे विमर्थेि ।

ऽस्य पुनरुक्तिरेव । सिद्धान्तशिरोमणौ -

तिथ्यन्ता दुगणितागतात् स्थिति दलेनोनाधिकाल्लम्बनं
तत्कालोत्थनतीषु संस्कृति भव स्थित्यर्धहीनाधिके ।
दर्शान्ते गरिणतागते धनमूर्ण वा तद्विधायासकृज्
ज्ञेयो प्रग्रहमोक्ष संज्ञसमयावेवं क्रमात् प्रस्फुटौ ||

भास्करोक्तमपि सर्वथैव तदनुरूपमेवास्ति । एवं सिद्धान्तशेखरस्य सूर्यग्रहणाध्यायोप- संहारे स्फुटं भवति पञ्चजीवया लम्वनं नहि यतस्ततः कृतम् | युक्तमुक्तमिति जिष्णुसूनुना सन्मयाऽपि कथितं परिस्फुटम् इति ब्रह्मगुप्तोक्तस्या-

हरितक्यं न भवति यस्मात् पञ्चज्यया रविग्रहणे ।
तस्माद्यथा तदैक्यं तथा प्रवक्ष्यामि तिथ्यते ॥

ऽस्य सदृशमेव | मध्यगत्यध्यायतो ग्रन्थ समाप्ति यावत्सादृश्यस्यैवमेव स्थितिरिति द्वयोर्ग्रन्थयो 'ब्रह्मिस्फुट सिद्धान्त सिद्धान्तशेखरयोः' रवलोकनेन स्फुटं भवतीति ।