पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२६

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
( ७ )

तत्फलस्याप्यभावो यात्रोद्वाहादिषु पुनरिह द्युत्रयं नैव दुष्टम् || अनेन कथितम्, अर्थात्सूर्यविम्बं तुहिनकिरणापक्रमेण ( चन्द्रस्य स्पष्टक्रान्त्या सह) यावत्काल- पर्यन्तमेकमार्गे ( एकस्मिन्नहोरात्रवृत्त इर्थांद्यावत् क्रान्त्योविवरं मानक्यार्धादल्यं भवति यथा बिम्बैकदेशजक्रान्त्योः साम्यं भवतीत्यर्थः ।) तावत् मुनिभिः फलादेश- कृभिः पातसंजातफलस्य संभवः कथितः | तस्य सूर्यस्य चन्द्रस्य स्पष्टान्त्या सहकमार्गावस्थानाभावे तत्फलस्याप्यभावो भवति । इह पुनः पातस्थितिकाले यात्रोद्वाहादिषु मङ्गलकार्येषु दिनत्रयं दुष्टं नैव । केबुचित्फलग्रन्थेषु व्यतीपात- बैधृतयोः सतोस्तद्दिनं तत्पूर्वदिनमपरदिनं चेति दिनत्रयं शुभकार्ये निषिद्धमिति कंश्चिदुवतं तत्परिहारार्थं माह- दुयुत्रयं नैव दुष्टम् । सूर्यसिद्धान्तादिषु पातकाल एवं शुभकार्येषु दोषभाक् गते पातकाले च दोषो न भवतीति । प्रसङ्गादत्र सिद्धान्तशेखरवचनोल्लेखः कृतः । यतः श्रीपतिराचार्या (ब्रह्मगुप्तात्) दर्वाचीनोऽ- स्ति । ब्राह्मस्फुट सिद्धान्ते तन्नामोल्लेखो नास्ति ।

भारतीयानां ज्योतिर्विदां मध्ये प्रार्यभट एवं सर्वप्रथमं दिनराग्योः कारण- स्वरूपं पृथिव्या आवर्तनं कथयति । यथा गीतिकापादस्य प्रथमश्लोके एकस्मिन् महायुगे ४३२०००० भूमेभंगणा: १५८२२३७५०० एतावन्तो भवन्तीति प्रथमं कथयित्वा दृष्टान्तद्वारेण भूभ्रमणं--

अनुलोमगतिर्नोस्थ: पश्यत्यचलं विलोमगं यद्वत् ।
अचलानि भानि तद्वत् समपश्चिमवाति लङ्कायाम् ॥

अनेन दृढीकरोति । परमत्र विचित्रमेतदवलोक्यते यदार्यभटीय टीका- कारेण परमेश्वरेणंतत्-श्लोकस्यावतरणं 'भूमेः प्राग्गमनं नक्षत्राणां गत्यभावञ्चे- च्छन्ति केचित्तन्मिथ्याज्ञानवशादुत्पन्नां प्रत्यग्गमन प्रतीतिमङ्गीकृत्य भूमेः प्राग्ग- तिरभिधीयते । परमार्थंतस्तु स्थिरैवभूमिः' इत्युक्तम् । स्वयमप्यार्यभट :-

उदयास्तमय निमित्तं नित्यं प्रवहेण वायुना क्षिप्तः ।
लङ्कासमपश्चिमगो भपञ्जर: सग्रहो भ्रमति ॥

इत्यनेन भूभ्रमणमस्वीकरोतीति दृश्यन्ते । आर्यभटस्य मनसि निश्चयो नासीद्यत् पृथिवी चलति नवा चलति । ब्रह्मगुप्तेनैक्रमपूर्वं वस्तु 'नतकर्म' प्रति- पादितम् । मन्दफल - शीघ्रफल - भुजान्तरादि संस्कारेण यो हि स्पष्टग्रह: समा- गच्छति स स्वगोलीयः (ग्रहगोलीयः) स ग्रहोऽस्माकं यत्र प्रत्यक्षोभूतो भवति स एवास्माकं स्पष्टग्रहो भवितुमर्हति । स्वगोलीय स्पष्टग्र हे यावता संस्कारेणास्माकं स्पष्टग्रहो भवति तस्यैव संस्कारस्य नाम 'नतकर्म' ब्रह्मगुप्ततः केsपि प्राचीना आचार्या एतस्य (नतकर्मण:) नामोल्लेखं न कृतवन्तः | भास्कराचार्येण सिद्धान्त-