पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६३६ ल्यान्नष्टयोर्मध्यमयोजनविष्कंभस्य त्रिज्यागुणकारः स्फुटयोजनकर्ता भागाहारः फलं स्फुटमानलिप्ता रवे चन्द्रस्य चैवं मानान्यभिधायेदानीं रविचन्द्रग्रहणयोः स्वरूप प्रतिपादनार्थमार्यामाह भूछायेन्दु चन्द्रः सूर्यं छादयति मानयोगार्धात् । विक्षेपो यद्य ,नः शुक्लेतरपंचदश्यन्ते ।३५॥ वास० -छादयतीति उभयोरपि सम्बध्यते । तेन नायमर्थः। भूछायेन्दु छाद यति । चन्द्रश्च सूर्यं छादयति । यथा संख्या शुक्लेतरपञ्चदश्यन्ते । क्रि सर्वदैव नेत्याह मानाधंयोगाधाद्विक्षेपो ग्राह्यग्राहकयोलिप्तामानयोगार्धात । तात्कालिको विक्षेपोय यूनः । तदाग्राससम्भव: अत्रेयं वासना । रवेर्भार्थान्तरिता सर्वदा भूछाया भ्रमति पौर्णमास्यन्ते चन्द्रोऽपि भांतरित एव तत्रस्थाश्चासौ यद्यतिविक्षिप्तोपमण्ड लान्न भवति । तदा भूछायां प्रविशति यतश्चन्द्रकर्णछायादैर्यमधिकं भूछाया चापमण्डले भ्रमति चन्द्रस्रुपातासन्नो विमण्डलस्थोऽपि भूछायां प्रविश्य महत्त्वा भूछायाः सूर्यरक्तचन्द्रमसश्छाद्यते । उपरिरविरधश्चन्द्रः स च शीघ्रगतिः सन्छाद्य प्रागल्छति मेघखण्डवत् । अमावस्यायाः अन्ये च एकसूत्रगतौ द्वावपि भवतः तव स्फुटविक्षेपवशाद्यद्यति विक्षिप्तश्चन्द्रो न भवति । तदा रविग्रह्णं यतो बिम्बयोः केन्द्रान्तरालं स्फुटविक्षेपः स च यदि मानार्धादधिको भवति । तदा बिम्बयोर्यु ति रेव न भवति । अथोनस्तदा परस्परमनुप्रवेशो भवति, इत्येवं सर्वे गोले प्रदर्शयेत् ननु च राहुकृतग्रहणी रविचन्द्रयोः तत्किमुच्यते। भूछायेन्दुचन्द्रः सूर्यं छादयत्ये तदाशङ्क्य राहुकृतं ग्रहण निराचिकीषुरादौ तावगाहकद्वयप्रतिपादनार्थं महबंदोरावणं कुष्ठविषाणो यतोऽर्धसंछन्नः । अर्घच्छन्नो भानुस्तीक्ष्णविषाणस्ततोऽस्याल्पम् ।३६। वास० स्पष्टार्थयमार्या । अन्येन रविः छाद्यते अन्ये न च शशी यतो छन्नस्येन्दोः कुण्ठविषाणत्वादवगम्यते महान् कश्चिद्ब्राहक इत्यस्य । रवेश्चाव छन्नस्य विषाणयोः तैक्ष्ण्यादवगम्यते, अल्पस्य ग्राहक इति तौ च मसौ युक्तौ नान्यैनयुक्तिकौ कल्पयितु’ शक्येते इति राहुकृतग्रहणस्पन्यदूषण यदि राहुः प्राग्भगाविन्दु धावयति कि तथा नार्कम् । स्थित्यर्ध महदिन्वर्यथा तथा कि न सूर्यस्य ॥३७॥