पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


गोलाध्यायः १६२७ ज्यार्धानि ज्यधन ज्याखंडान्यन्तराणि तान्येव । व्यस्तान्यन्या दथवेषरुक्रमज्या धनुस्ताम्याम् ॥१८॥ ॥ वास०-राशोनामष्टांशा राश्यष्टांशाः भचक्रस्य षण्णवतितमा अंशा इत्यर्थः । तेषां कान्कृत्वा क्रमोत्क्रमान् दशसंधिभ्यः पदानां संधयः पदसंधयः तेभ्यो. राशित्रयाद्राशित्रयादित्यर्थः ततो बन्धीयात्सूत्राणि द्वयोर्दूयो रेवं कृते ज्या भवन्ति, एतदुक्त भवति । समायामवनौ खमुनि रदांगुलसंख्येन ककंटकेण वृत्तमालिखेत् तत्र पूर्वापरादक्षिणात्तरा च द्वे अपि:रेखे समे कुर्याद्यथा तच्चतुर्धा भवन्ति तानि चत्वारि तत एकैकस्मिन्पदे राशित्रयं परिकल्प्यचिह्नानि कुर्यात् तदेकैकस्मिन् राशौ राशावष्टावष्टौ चिह्नानि कुर्यात् । एवं षण्णवति चिह्नानि सकले वृत्ते भवंति। ततः पूर्वस्मिन् भागे पूर्वपरायाम्योत्तररेखाया उभयपाश्र्वस्थयोश्चिह्नयोः सूत्रं प्रसार्य रेखां कुर्यात्, सा प्रथमा ज्या भवति । मनुयमला द्विगुण भवतीत्यर्थःएवं तदनन्त रोभय पार्वचिन्नयोः सूत्रं प्रसार्य रेखां कुर्यायावच्चतुर्विंतिश्चतुविंशे सूत्र खमुनिरदा द्विगुणा भवति । तत उक्तोत्क्रमेणांनंतरं चिह्नयोरुभयपाश्र्वस्थयोस्तावत्सूत्राणि प्रसार्य रेखाः कुर्याद्यावदपरा दिक् । एवमष्टचत्वारिशज्जीवा भवति । तदर्थानि ज्यार्धानीति तासां ज्यानामर्थाति भवंनि । सप्तचत्वाशिंरता रेखाभिः मध्यमायाः साधारणत्वादधेज्यामनुयमला मुनियमवेदा इत्यादीनि एवं षण्णवतिज्यघानि सकले वृत्ते भवंति, ज्यार्धानां ज्याखण्डान्यंतराणि तेषां ज्यार्थानां प्रत्येकमेकैक स्यानंतरज्याधं सहांतरे कृते यद्भवति । तज्याखंडकं भवति एवं सर्वेज्यार्धनानां चतुर्वेपिप्रदेशेषु षण्णवतिज्र्याखंडकानि भवंति । क्रमोत्क्रमेण यथा प्रथमं ज्याधं मनुययलाः २१४ द्वितीयं च मुनियमवेदाः ४२७ अनयोरंतरं २१३ एतज्ज्याखंडक मेवं यावत्सर्वत्र ज्याखण्डकं सप्त व्यस्तानां तावदथवेषुरूत्क्रमज्या तान्येव ज्या खंडानि व्यस्तानि यिपरीतानि । जीवातः प्रभृति यच्चतुविंशत्या ज्यायाः सम्बंधि- ज्याखंडं तदुक्तमज्याकरणे प्रथमं भवत्येवं त्रयोविंश द्वितीयमित्यादि तावद्या वत्प्रथममंयं भवति । अथवा क्रमेण प्रथमज्यामापः शरस एवं प्रथमज्यार्धमुक्तम ज्याकरणे द्वितीया द्वितीयं तृतीयास्तृतीययित्यादि तावद्वचा साधं धनुस्ताभ्यां तस्या क्रमज्याया उक्तमज्यायाश्च चापं तुल्यमेव । यत एवमुत्तर दिग्भागा दक्षिण- दिग्भागं यावदष्टाचत्वारिंशज्याः तदर्धानि ज्याघूनितेषां मंतराणि ज्यखंडकानि क्रमणैव योज्यम् । एवं भूमौ दृग्गोले च अपमण्डलेः तु मेषतुलादौ क्रमेण ज्या ककंटमकरादावुक्रमेण । एव ज्यास्वरूपं प्रदश्यधुना अष्टादशषोडश ज्याघ्ना मुत्पत प्रदर्शयन्नाह एकद्वित्रिगुणाया व्यासार्धकृतेः पृथक् चतुर्युस्यः । मूलान्यष्टद्वादश षोडशखंडन्यतोऽन्यानि ॥१६॥