पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६२५ दा भुक्तिभेदः, चन्द्रः कक्ष्यायां पंचदशो योजनानि लिप्ता प्रमाणं सति कक्ष्यायां पुनः षडभिर्योजनसहस्र: सप्तन्यूने लिप्ता भवति अयं द्वितीयाया मथ उभयो रपि गतिपक्षयोः तुल्य एव । प्रागायोंक्तोत्रैश्च विचार्यं ते शीघ्राशनैश्चरोद्याः कलाभुक्तति अत्रैकपक्षः भूस्थिराभपंजरस्तु सग्रहः प्रभंजाक्षिप्तप्रतिक्षणं पश्चाभि- मुखं भ्रमति । तद्वशेन प्रतिदिवसिकावुदयास्तमयौ सर्वग्रहनत्राणां तत्र भवति स्वग णो भोगेन । अत एव प्राग्गतयो ऽस्याभिरूपलभ्यते । देशान्तरप्राप्तेः द्वितीयः पक्षः भूः स्थिरैव नक्षत्रग्रहाः सर्वे एव पश्चाद्गतयो प्रत्यक्षतो ऽस्माभिरूपलभ्यन्ते । तस्मादत्रातिशीघ्रोक्तिनक्षत्राणि ग्रहेभ्यो यतो भूगोलकादति दूरस्थितानि, तेषा मधिका प्ररणानित्यं प्रवाहानिलजनिता तेभ्योऽधः शनिः स एव तदपेक्षया पश्चा दुगतित्वे मंदः तस्य न्यूनवायुप्रेरणया भूमेरासन्नो यतः स एवं ततोऽपि मंदक्रमे णाधोऽधोतिमंदता चन्द्रस्य। ततोऽपि श्येनादयो मंदस्तेभ्योऽपि मन्दां वयं साक्षा भूमिस्पशिणः एवं च स्थिते शनिं हित्वा नक्षत्रं पश्चाद्यायतो भूस्थैरुच्यते प्रगतिः शनैश्चरो नक्षत्रांतरं प्राप्तः एवं सर्वग्रहाणां योज्यम् । अन्यथा नक्षत्रग्रहाः सर्व एव खस्थाः पदार्थाः तत्र ग्रहाणां युगपद्गतिद्वया संभवस्यात् । यतो गतिर्नाम वपु व्यापारः पूर्वापरयोश्च विरुद्ध वायू एकस्यैव पदार्थस्या काशस्थितस्य तुल्यकालं प्र रणद्वयं कुरुत इत्येतदपि न शक्यते वक्तम् । य एव बलवान् स एव स्वस्थायां दिशि नयति । मूर्तिमदाधारजतत्वाप्तदार्थस्य ग्रहादेः अस्ति मूfतदाधारो यत्रासौ स्थितो यातीति चेत्तदपि न । यदि स्यात्तदस्यावयवे व्यवधायकः स्यात् । दृश्यन्ते च ज्योतिष्मंतः। पदार्थाः तस्मात्प्रथमपक्षे यदुक्त' कुलालचक्रा स्थिताः कीटा इव महानदीप्रवाह पतिताः पुरुषा इवेति तदुक्तमाधाराभावादयंह पूर्वेण च देशान्तरप्राप्तिरस्मात्पक्षे च युज्यत एव नैवं भवत्पक्षेपि दोषा विद्यते तत्रैको वक्रासम्भवात् । यतो नक्षत्रेभ्योग्यो ग्रहः स्थितैः स तावत्प्राग्गतिः स च नक्षत्रा दवलंबितः पश्चाद्गतिः सवक्री कथं भवत्युभयताम् । अथैवं भणसि यदा नक्षत्रेभ्य उपरिग्रहो भवति । तदा तेन नक्षत्राणि जीयंते जितानि चावलंबंते पूर्वेण स च पश्चादुपलभ्यते इति । तदपि न शक्यते वक्तुम् । यतो नक्षत्रेभ्य उच्चतरो ग्रहः कदाचिदपि न भवति । नियतत्वाद् ग्रहभ्रमणप्रदेशस्य अन्यच्च वक्रीग्रहो भूमेर त्यासन्नो भवति । योजनकर्षोऽपि तस्यातिलघुर्भवति, मानमपि बिंबस्य महद्भवति अतः परमवक्र स्थितो ग्रहःअन्यकालाद्भूमेर त्यासन्नो भवति, न वैवमस्मिन्सदा पश्चातगतिश्च प्रतिपादयितु शक्यते । अतोऽयमपि सदोषः पक्षः अपरो ऽपि दोषः वया तावदस्योपर्यधो भावेन ग्रहाणां स्थितिरंभ्युपगता। तत्कथ तुल्यावलंबनम् । योजनगतं प्रदेशभेदाद्वायुभेद स्वोक्त एव । स च नेह यस्त्वबलंबनभेदः स लिप्ता गतो यतो वृत्तगत्याग्रहाः परिवर्ता कुर्वते । तच्च वृत्तं दूरस्थंस्य महद्भवति निकट स्थस्याल्पं तस्माद्वितीयोऽपि दोषः परिहार्यः। अन्येऽपि दोषा अनया दिशायोज्याः इत्यनयोः पक्षयोः प्रथमः पक्षः शोभनोऽप्यतो लघुकाराग्रहणगतिरुपलभ्यते ।