पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१५१६ ब्राह्मस्फुटसिद्धान्ते इदानीं सिद्धान्त एक एवेत्याह। युगपद्युगाविरुवयाद्यास्याय भास्करस्य वारुण्याम्। राज्यञ्चत् सौम्यायामस्तमयाद्दिनदलादैन्द्रयाम् ॥ २ ॥ अयमेव कृतः सूर्येन्दु पुलिश रोमक वशिष्ठ यवनाथ: । यस्मात्तस्मादेकः सिद्धान्तो विरचितो मान्यः ॥ ३ ॥ सु. भा.- कस्यचिन्मते भास्करस्य याम्यायां लङ्कायामुदयाद्युगपद्युगादिः। अन्यमते तदैव वारुण्यां रोमकपत्तने रात्र्यर्धाद्युगादिः । अन्यमते तदैव सौम्यायां सिद्धपुरेऽस्तमयाद्युगादिः । अन्यमते च तदेवंन्द्रयाँ यमकोटध दिनदलायुगादिः । एवं देशविशेषणोदयास्तादिकालः सूर्यस्य जातो वस्तुत आकाशे सूर्यस्य स्थितिश्च मेषादावेवातो ग्रहगणनायामेव सर्वत्र एक एवायं सिद्धान्तः सूर्येन्दुपुलिशरोमक वसिष्ठय वनाथैः कृतः। यस्मादै शविशेषस्य भिन्न-भिन्नकालग्रहणेन ग्रहगणनायां भेदो न भवति तस्मात् सूर्याचैर्वस्तुत एक एव सिद्धान्तो विरचितो नान्य इति सिद्धान्तविदां सर्वं स्फुटम् ॥२-३।। वि. भा--भास्करस्य (सूर्यस्य) याम्यायाँ (लङ्कायां) उदयादेकदैव युगादेः प्रवृत्तिर्बभूवेति कस्यचिन्मतम् । तदैव (लङ्कार्कोदयकाल एव) वारुण्यां (रोमक पत्तने) रात्र्यर्धात् (अर्धरात्रिकालाद) युगादिप्रवृत्तिः । तदैव सौम्यायां सिद्धपुरे) अस्तमयकालाद्युगादि प्रवृत्तिरिति कस्यचिन्मतम् । तदैवैन्द्रयास (यमकोटि पुर्या) दिनार्धकालांयुगादेः प्रवृत्तिरित्यन्यस्य मतम् । सिद्धान्त शिरोमणौ “लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमेरुः सौम्ये च याम्ये वडवानलश्च । कुवृत्त पादान्तरितानि तानि स्थानानि षङ्गोलविदो वदन्ती’ तिभास्करोक्तपुरनिवेशस्थित्या गोलस्थितिदर्शनेन चाऽग्रे । “लङ्कापुरेऽर्कस्य यदोदयः स्यात्तदा दिनार्ध यमकोटिपुर्याम् । अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव ।। ” इति भास्करोक्तमस्ति, यदा लङ्कायां सूर्योदयस्तदैव यमकोटिनगरे दिनार्धेमधःसिद्धपुरेऽस्तकालः। रोमकपत्तने रात्र्यधं भवति, तेन लङ्कसूर्योदय कालेयमकोटिदिनार्धकाले, अधः सिद्धपुरेऽस्तकाले, रोमकपत्तनस्य रात्र्यर्धकाले एकदैव युगादि प्रवृत्तिर्बभूवेति कथने न कोऽपि दोषोऽस्ति । तथापि सिद्धान्तशेखरे “मधुसित प्रतिपदिवसादितो रविदिने दिनमासयुगादयः। दश शिरः पुरि सूर्यसमुद्गमात्रं समममी भवसृष्टिमुखेऽभवन्