पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मानाध्यायः १४९९ प्रायश्चित्तं सूतकाद्याश्चिकित्ता यस्यादन्यत् सवन तच्च कर्म । शास्त्रे चास्मिन् खेचराणां च राशिविज्ञातव्याः सावनाद् भास्करीयात्। " श्रीपत्युक्तमिदमाचार्योक्तानुरूपमेवास्ति, सिद्धान्तशिरोमण “वर्षायनबृयुगपूर्वकमत्र सौरान्मासास्तथा च तिथयस्तुहिनांशुमानात् यत् कृच्छ्सूतक चिकित्सितवासरातुं तत्सावनाच्चे’ ति भास्करोक्तमष्याचार्योक्तानुरूपमेव । सूर्यसिद्धान्ते ‘सौरेण द्युनिशोर्मानं षड़शीतिमुखानिच । अयन विषुवच्चैव संक्रान्तेः पुण्यकालता ।” अहोराध्योर्मानं षड़शीतिमुखानिअयनं दक्षिणमुत्तरं वा, विषुवत् सयनमेषतुलदिमानं, संक्रान्तेः पुण्यकालता चैतत्सर्वं सौरेण प्रत्यहं सूर्यगतिभोगे नोत्पद्यते । रविकेन्द्र यस्मिन् समये राश्यादौ याति स संक्रान्तेर्मध्यहाल उच्यते । अथ यावद्रबिबिम्बाधंकलातुल्यमन्तरं केन्द्रात् प्रागनन्तरं च स्यात् तावद्विम्बैक देशस्य राश्यादौ संचारात् संक्रान्तेः कालो भवति । तत्कालानयनार्थमनुपातः । यदि रविगतिकलाभिः षष्टिघटिकास्तदा रविबिम्बमानकलाभिः क जाताः संक्रान्ति नाडयः केन्द्राभिप्रायेण संकान्तेः प्राक् तथा परे च यास्तत्र स्नानदानादौ पुण्यं भवतीति । - च तिथिः करणमुद्वहः क्षौरं सर्वक्रियास्तथा। व्रतोपवासयत्राणां क्रिया चान्द्रेण गृह्यते । तिथिः। करणं बवादि । उद्वाहो विवाहः । क्षौरं क्षुरकर्म, व्रतवन्धादिकाः सर्वक्रियाः । व्रतोपवासयात्रणषं मध्ये या क्रिया तत्सर्वं चान्द्रण मानेन गुह्यते । उदयादुदयं भानोः सावनं तत्प्रकोfत्ततम् । सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः । सूतकादि परिच्छेदो दिनमासाब्दपास्तथा । मध्यमर ग्रहभुक्तिस्तु साचनेनैव गृह्यते । सूर्यस्योदयद्वयान्तरकालेनैकं सावनदिनमितिगणनया पूर्वे मध्यमाधिकारे युगसावनानि कथितानि, । अत्र भानोरुदयेन नाडीवृत्तस्थकल्पितभानोरुदयो ग्राह्यो ॐयथा विलक्षणसवनदिनमानानि पाठायोग्यान्यहर्गणादावनुपयुक्तानि च भवन्तीति । तैः सावनदिनैर्यज्ञकालविधिः कार्यः। तथा सूतकादीनां जननमरण सम्बन्धि सूतकानमादिशब्देन चिकित्स्रचान्द्रायणादीनां च परिच्छेदः (निर्णयः)