पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४७५ इष्टघटिका भवन्ति । एवं दिक्स्थसूत्रमध्याग्रात् सूत्रंक्चापाततः सूत्रयोर्यदैक्च तस्यापाततो वृत्तपरिधौ संयोगतो व्यस्तोन्नतांशविवरे (व्यस्तकपालयस्थोन्नतांशा- न्तरे) घटयो भवन्ति । सिद्धान्तशेखरे । “इदं भवेद्ध्वंशलाकमुव्र्यां स्थितं कपालं धृतिदिक् च चापम् । मध्यस्थकीलप्रभया विमुक्ताः प्रत्यगतास्ता घटिकानिरुक्ताः । ” श्रीपतिनैवं कथ्यते—अस्यार्थे–इदं चापयन्त्रमूवंशलाकं (ऊध्वंगलम्बं वा) द्युतिदिक् उव्य स्थितं (छायादिशि समभूमौ स्थितं) कपालयन्त्र भवेत् । कपाल यन्त्रे व्याससूत्रमध्यबिन्दौ स्थापितस्य कीलस्य छायया विमुक्तास्त्यक्ता घटिका प्रत्यग्गता भवन्तीति । आचार्योक्तसूत्रोपपत्तिरपि भाष्यरूपैवास्तीति । श्रीपयुक्त सूत्रार्थमुपपत्तिः । वृत्तार्घस्वरूपं चापयन्त्र यस्यां दिशि ऊध्वंगशलाकायाश्छाया पतति तस्यां दिशि चापं स्थितमर्थात् याम्योत्तरसूत्रधरातले यन्त्रस्य व्याससूत्र छायादिशि च तवृत्तार्धमिति रीत्या स्थापितं तद्वशतोऽपि तथैव भुक्ता लम्बच्छायया या घटिका- स्ताः प्रत्यग्गता दिनघटिका इति । शिष्यधीवृद्धिदतन्त्रे लल्लोक्तम् इदमेवोध्वंशलाकं भुवि स्थितं स्यात् कपालकं यन्त्रम् । अनयोः कीलच्छायामुक्ता घटिका भवन्ति वारुण्याः। इत्येव श्रीपतेर्दूलम् । सिद्धान्तशेखरे शिष्यधीवृद्धिदे चैकत्रैव कपालयन्त्र पीठयन्त्रयोरुल्लेखोऽस्ति । यथा सिद्धान्तशेखरे इदं भवेद्ध्वंशलाकमुव्र्यां स्थितं कपालं धृतिदिक् च चापम् । संसाधिताशं खलु चक्रयन्त्र पीठं भवत्यूध्वंशलाकमेव । मध्यस्थकीलप्रभया विमुक्ताः प्रत्यग्गतास्ता घटिका निरुक्ताः । पाठे तु सूर्योदयबिम्बवेषाद् भुक्तांशजीवा स्फुटमग्रका स्यात् । शिष्यधीवृद्धिदे च इदमेवोध्वंशलाकं भुवि स्थितं स्यात् कपालकं यन्त्रम् । चक्र चोवंशलाकं वदन्ति पीठं सुसिद्धाशम् ।। अनयोः कीलच्छायामुक्ता घटिका वदन्ति वारुण्याः। पीठाकोदयवेधादग्नाश्चापांशकाश्चापि ॥४२॥