१४३४ ब्राह्मस्फुटसिद्धान्ते कथमेतेन यन्त्रेण नतोन्नतांश ज्ञानं भवतीति प्रतिपाद्यते । नतोन्नतांशज्ञानार्थमुपपत्तिः । केन्द्ररन्ध्रद्वारा कजरनम्र रविकिरणो यथा ॐ विशेत्तथा यन्त्रं धार्यम् । है (का र= रविबिम्वम् । तत्तेजः ‘के’ बिन्दु द्वारा 'कु' दृष्टिबिन्दौ निर्गच्छति । तथा यन्त्रे स्थिरीकृते ग्रहें क्षितिजस्थे सति, यदि कु दृष्टिस्थानमपि क्षितिजस्थं ॐ भवेत्तदा केग ऊध्र्वाधरसूत्रमवलम्बसूत्रम् । कुजादू गN + ध्र्वस्थे ग्रहे तथोक्तबद्यन्त्रे स्थिरीकृते केग ऊध्र्वाधर रूपं न भवेदपि-ऊध्र्वाधररूपं= केप, तत्समानान्त रम्=कुछ सूत्रमप्यूध्वाधररूपम् । ततः उकुके=<कुकेच, परं< ऊचुके = नतांशाः, अतः <पकेग = उन्नतांशाः। सिद्धान्ततत्त्वविवेके "धातुजं दारुजं वा यत् यन्त्र बुद्धिमता कृतम् । तस्य केन्द्रकुजोध्वेस्थे रन्धे कार्ये समान्तरे ।। कुजरन्ध्रस्थदृष्टयवं केन्द्ररन्ध्रगतं ग्रहम्। खस्थं विध्वाऽथ तद्यन्त्र कार्यं दृग्वृत्तवदबुधैः । व्याख्या—तस्य यन्त्रस्य केन्द्रकुजबिन्द्वोरुर्वेस्थे समान्तरे रन्नै (छिद्र) कायें, अर्थात् कुजरेखा तु नलिकारूपा कार्या, तथा कृते कुजरन्थे दृष्टिं निवेश्य दृग्वृत्तधरातले तथैतद्यन्त्र धार्यं, यथा सा नलिकारूपा कुजरेखा, ग्रहगर्भ दृष्टिसूत्रं भवेत्तदैव आकाशस्थं ग्रहं केन्द्ररन्ध्रगतं पश्येदिति । अत्र यन्त्रमधोमुखं परिवर्षे निवेशितम् । अथवा केन्द्ररन्त्रेण माजरन्तुं विशेद्यथा । अर्कतेजस्तथा यन्त्र धार्यंमर्कमुखं सदा । अर्कोदये भवेत् खस्थं लम्बसूत्र यथा यथा ।। वियत्यर्कः कुजस्थानादुन्नतरच तथा तथा । यन्त्रे खतश्च तत्सूत्र ' नेम्यंशैश्चलितं भवेत् ।। अतः खदुन्नतांशाश्च ज्ञेया भजानतांशकाः। तज्ज्यके शङकुदृग्ज्ये व यन्त्रे दृग्वृत्तवत् स्थिते ।” कमलाकरेणैवं यन्त्रद्वारोन्नतांशनतांशयोर्जानं प्रतिपादितम् । तथा यन्त्रचिन्तामणौ "केन्द्रोध्र्वरन्भेण यथाऽर्कतेजः क्ष्माजोध्र्वरन्तुं प्रविशेत्तथैव । घार्यं तु केन्द्रादवलम्बभागज्या दृग्ज्यका स्यान्नतशिञ्जिनी वा ।" कमलाकरोक्तसदृशमेवोक्तमस्तीति ॥१७॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४५
दिखावट