पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३८९ चन्द्रोऽम्बुमयोऽधः स्थो यदग्निमयभास्करस्य मासान्ते । छादयति शमिततापो राहुश्छादयति तत् सवितुः ॥४५॥ सु- भा. इन्दोर्दुबिम्बं शुक्लपञ्चदश्यन्ते पूर्णान्ते भूछायातमसि भूमान्ध कारे प्रविशति तदेव बिम्बं कमलयोनेब्रह्मणो वरप्रदानाद् भूछायामाश्रित्य राहु श्छादयति । एवं मासान्ते दर्शान्तेऽग्निमयस्य भास्करस्य महदुबिम्बं जलमयः शमिततापोऽधः स्थश्च चन्द्रश्छादयति सवितुः सूर्यस्य तदेव बिम्बं छायामाश्रित्य राहुश्छादयतीति । भास्करोक्तिरप्येतादृशी ॥४५॥ वि भा--इन्दोः (चन्द्रस्य) यद्विम्बं शुक्लपक्षपञ्चदश्यन्ते (पूर्णान्ते) भूछायातमसि (भूभान्धकारे) प्रविशति, तदेव बिम्बं ब्रह्मणो वरप्रदानात् भूछा यामाश्रित्य राहुश्छादयति । एवं मासान्ते (अमान्तकाले) ऽग्निमयस्य भास्करस्य (सूर्यस्य) महद्विम्बं जलमयः शमिततापोऽधः स्थश्चन्द्रश्छादयति, सूर्यस्य तदेव बिम्बं भूछायामाश्रित्य राहुश्छादयतीति । सिद्धान्तशेखरे विष्णुल्नशिरसः किल पङ्गोदैत्तवाच वरमिमं परमेष्ठी । हेमदानविधिना तव तृप्तिस्तिग्मशीतमह सोरुपरागे। भूमेश्छायां प्रविष्टः स्थगयति शशिनं शुक्लपक्षावसाने राहु ब्रह्मा प्रसादात् समधिगतवरस्तत्तमो व्यासतुल्यः। ऊध्र्वस्थं भानुबिम्बं सलिलमयतनोर प्यधोतबिम्बं संसृत्यैवं च मासव्युपरति समये स्वस्य साहित्यहेतोः” इत्यनेन श्रीपतिनाऽऽचार्योक्तानुरूपमेव कथितम् । श्रीपत्युक्तश्लोकार्थः विष्णुना नाराय णेन) लूनं (छिन्तं) शिरो (मस्तकं) यस्य स विष्णुलूनशिरास्तस्य पङ्गोः (गति विकलस्य राहोरित्यर्थः) परमेष्ठी (ब्रह्मा) इमं वरं दत्तवान् । किं वरमित्याह तिग्मशीतमहसोः (सूर्याचन्द्रमसोः) उपरागे (ग्रहणे) होमदानविधिना ग्रहणकाले यद्दानं दीयते यच्चाग्नौ हूयते तेन तव तृप्तिः (तर्पणमाप्यायनमित्यर्थः) भविष्यति ब्रह्मप्रसादात् समधिगतवरोराहुः तत्तमो व्यासतुल्यः (तस्या भूच्छायाया अन्यका ररूपेण व्यासेन समानःशुक्लपक्षावसाने (पौर्णमास्यन्ते) भूभां प्रविष्टः सन् चन्द्र ग्रसते । एवममूना प्रकारेण मासव्युपरति समये (अमावास्यायां) स्वस्य साहित्यहेतोः । सूर्यचन्द्राभ्यां मिलनकामनग्ना पीयूषपिण्डस्य चन्द्रस्य अधोवंति बिम्बं सूर्यबिम्बापेक्षयेतिभावः । संसृत्य (आश्रित्य) ऊध्र्वस्थं सूर्यबिम्बं स्थगयति स्वस्य साहित्यहेतोरिति । अत्र लल्लोक्तम्--"ग्रहणे कमलासनानुभावाद्धे दत्तांशभुजोऽस्य सन्निधानम् । यदतः स्मृतिवेदसंहितासु ग्रहणं राहुकृतं गतं प्रसि द्धिसु ।” इति, श्रीपयुक्त च “भूमेछायां प्रविष्टः स्थगयति शशिन" मित्यादि दृष्ट्वा भास्कराचार्येण गोलाध्यायस्य ग्रहणवासनाधिकारे दिग्देशकालावरणादिभेदान्नच्छादको राहुरिति ब्रुवन्ति । यन्मानिनः केवल गोलविद्यास्तत्संहिता वेदपुराणबाह्यम् त ।