पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ ज्याप्रकरणं प्रारभ्यते तत्र प्रथमं ज्याखण्डानयनमाह । राश्यष्टांशेष्वङ्गन् पदसन्धियः इमोत्क्रमात् कृत्वा । बध्नीयात् सूत्राणि द्वयोड़ योज्र्यास्तदर्धनि ।।१७ । ज्यार्धानि ज्यार्थानां ज्याखण्डखान्यन्तराणि तान्येव । व्यस्तान्यन्त्यदथवेषुत्क्रमज्या धनुस्ताम्याम् ॥१८॥ सु- भा.-इष्टत्रिज्यया वृत्तमुत्पाद्य लम्बरूपाभ्यां व्यासाभ्यां वृत्तचतुर्भागं कृत्वा चत्वारि पदानि कार्याणि । तत्र कस्माच्चिदपि पदसन्घितो ऽष्टादशशतकला नामष्टांशसमं शरद्विदत्रकलात्मकं धनुः क्रमादुत्क्रमात् कृत्वाऽर्थादुभयतो दत्त्वा द्वयोरग्रयोः सूत्रं बध्नीयादेवं द्विगुणशरद्विदस्रकलाचापं पदसन्धित उभयतो दत्त्वा द्वयोरग्रयोः सूत्रं बध्नीयात् । एवं त्रिगुणचतुर्णादि प्रथमचापवशतः सूत्राणि वध्नीयात् । एवं द्वयोर्दूयोरग्रयोर्बद्धानि सूत्राणि ज्याः पूर्णज्या भवन्ति । तासा मधुनि ज्याघूनि चतुविशतिर्भवन्ति ज्याघनामन् ज्याखण्डानि भवन्ति तान्येवान्त्याद्वघस्तानि स्थाप्यानि तदोत्क्रमज्या उत्क्रमज्या खण्डान्यथवेषुः शरखं ण्डानि भवन्ति । ताभ्यां क्रमोत्क्रमज्याखण्डानां घनुः साधनीयम् । ‘इष्टाङ्गुलव्यासदलेन वृत्तम्'-इत्यादि विधिना तथा स्यादुत्क्रमज्याऽत्र विलोमखण्डैः'-इत्यादि विधिना भास्करोक्तन स्फुटा १७१८। वि. भा.-इष्टत्रिज्यया वृत्तं विलिख्य लम्बरूपाभ्यां व्यासाभ्यां वृत्तचतुर्भागं विधाय पदानि कल्प्यानि, तत्र कस्माचिदपि व्यासप्रान्तासक्त (पदसन्धि) बिन्दोः राशिकलानां (अष्टादशशतकलानां) अष्टमांशेषु (शरद्विदसूकलात्मकेषु) प्रत्येकम झन्-लाञ्छनान् (चिह्नानि) क्रमादुत्क्रमात् कृत्वाऽर्थादुभयभागतो दत्त्वा द्वयोर्द्धयोः संमुखस्थचिन्हयोः सूत्राणि बध्नीयात् तानि ज्याः (पूर्णेज्याः) भवन्ति, तासां पूर्णज्या नामर्थानि ज्यार्धानि चतुर्विंशतिर्भवन्ति । ज्यार्धानामन्तराणि यानि तानि ज्याख ण्डानि भवन्ति । तान्येवान्त्याद्वयस्तानि स्थाप्यानि तदोत्क्रमज्या खण्डानि, अथवेषुः शरखण्डानि भवन्ति, ताभ्यां (क्रमोक्रमज्या खण्डाभ्यां) घतुः (चापं) साध्य मिति ।