पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ५५ नवनगशशिमुनिकृतनबयमन गनन्देन्दवः १६७२e४७१७३ शकनृपन्ते । साधुदतीतमनूनां सन्धिभिराद्यन्तरान्तगतैः ॥ २७ ॥ व. भ7. --कशब्देन ब्रह्मोच्यते, तस्य कस्य कल्पानां पराधं गतम् । वर्तमाने च करुपे मनवः षट् गताः । चतुर्युगानां त्रिघसः सप्तविंशतिश्चतुर्युगानां अत । त्रीणि कृतादीनि कृतत्रेताद्वषराणि, कलेः कलियुगस्य गोगैकगुणः ३१७६ एतावन्तोऽब्दाः , शकान्तं शककालकालात् प्राग्गतः इत्यर्थः । तद्यया कल्याव्दाः ४३२००००००० एतैः परार्धसंख्ययाष्टादशस्थानात्मिकया हता जाताः द्वित्रिवेदाः खचतुर्विंशत्येकहता जाता :-४३२०००००००००००००००००००००००० वर्तमान कल्पाषण्मनवो गताः, चतुर्युगत्रिघना: त्रीणि कृतादीनि सर्वेषां वर्षाणि कृत्वा कलिगतवर्यः पूर्वस्थापितैश्च सह शकान्ते के जन्मनोतीतानि वर्षाणि नवनग शशिमुनिकृतनवयमा नगनवेन्दुखचतुर्दशकद्वगुणाब्धयोमी ॥ ४३२०००००००००० ६७२६४७१७६ एतावन्तोऽव्दाः सौरमनेन कस्य गताः, सोपि कलिनियता युरिति अन्यैः पुनरेवं व्याख्यातं कल्पपराधं कस्य दिनम्, कशब्देन परः पुरुष उच्यते । तस्य कल्पानां पराधेनहोरात्रो भवति यस्मान्मानाधिकारे एतत् पठितमाचार्येण। वर्तमाने च कल्पे षण्मनवो गता इत्यादौ तुल्यव्याख्यानं तथा च पुराणकारःपरार्धसंख्यैः कल्पैस्त्रिदिवसाः पौकषः स्मृता इति यद्येवम् ॥२६-२७! वि. भा.-कस्य(ब्रह्मणः) कल्पपराधे षट् मनवो गताः (व्यतीताः, चतुर्युगत्रि घनाः(चतुर्युगनां महयुगानां सप्तविंशतिः)गता अर्थात्सप्तविशतिमितानि महायुगानि व्यतीतानि कृतादोनि त्रीणि ( सत्ययुगादीनि त्रीणि युगचरणमानानि ) गतानि शकन्ते (शकनृपस्यान्ते ) कलेः (कलियुगादितः ) गोऽगैकगुणः ३१७३ अब्दाः ( वषणि ) गताः अतीतमनूनां ( गतमनूनां षमितानां ) आद्यन्तरान्तगतैः ( आदिमध्यावसानस्थितेः) सन्धिभिः सार्ध, शक्रनृपान्ते नवनगशशिमुनि- कृतनवयमनगनन्देन्दबः १८७२३४७१७६ एतावन्तोऽब्दा गता इति । ब्रह्मणो द्वितीयार्धे षड् मनवो व्यतीताःवर्तमानसप्तममनोः सप्तविंशतिसंख्यकानि युगानि व्यतीतानि, अष्टाविंशतितमयुगस्य सत्ययुगादयस्त्रयो युगचरणा व्यतीताःकलेः शकान्तं यावत् ३१७६ अब्दाः ( सौरवर्षाणि ) व्यतीताः। एतेषां योगः कियान् भवदत्यनयतं । इलोकोक्त्या ६ मनु+७ मनुसन्धि+२७ युग+युगचरणत्रय+३१७e =६ मनु+ ७ मनुसं+२७ युग+( युग-कलिव )+३१७६ =६४७१ यु+७४४x४३२०००+२७ युग+( युग-कलिच )+३१७e =६ ४७१४४३२००००+७४४x४३२०००+२७४४३२०००० (४३२००००-४३२०००)+३१७६ =४२६x४३२००००+२८४४३२०००-+२७४३२०००० +(४३२००००--४३२००० )+३१७६