पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदानीं स्फुटपातानयनमाह बुधसतपातेऽव्यस्तं मन्दफलमुपास्यशीघ्रफलम् शेषाणां स्फुट पताद्विक्षेपो मध्यमायोगात् ॥८॥ सु• भा-बुधशुक्रयोर्गणितागतपाते मन्दफलमव्यस्तं यथागतं धनणं देयम् । तत्रोपान्त्यशीव्रफलं व्यस्तशीघ्रफलम् च देयम् । एवं तयोः पातौ स्फुटौ भवतः । शेषाणां भौमगुरुशनीनां पाते च केवलमुपन्थशीघ्रफलं व्यस्तशीघ्रफलं देयम् । एवं तेषां पाताः स्फुटा भवन्ति । तस्मात् स्फुटपातान्मध्यमायोगाद्विक्षेपो भवति । अत्रैतदुक्त’ भवत । स्फुटपाताद्यदि विक्षेपः साध्यस्तदा स्फुटपाते स्फुट' अहं संयोज्य तस्मात् सपाताद्वक्ष्यमाणविधिना शरः साघनीयः । बुधशुक्रयोः शरानयनार्थं च तच्छीघ्रोच्चयोर्यथागतं तात्कालिकं स्फुटशीEफलं संस्कार्यं शीघ्रोच्चे स्फुटं कार्यं ततस्ताभ्यां तत्स्फुटपातसहिताभ्यां शरानयनमिति । अत्रोपपत्तिः। • ये चात्रपातभगणाः पठिता ज्ञभृग्वो’ रित्यादि तथा पातेऽथवा शीघ्रफलं विलोम' भित्यादि भास्कर विघिनास्फुटा । तत्र भास्करस्य वासनाभाष्यं च निरीक्षणीयम् ॥८॥ वि. भा–बुधसित पाते (बुधशुक्रयोर्गणितागत पाते)मन्दफलमव्यस्तं (यथा मृतं घनमृणं) देयम् । उपान्त्यशीघ्रफलं (व्यंस्त शीघ्रफलं च) देयम् । तदा तयोः स्फुटौ पातो भवेताम् । शेषाणांजगुरुशनीनांपाते केवलमुपान्त्य शीघ्रफलं(च्यस्तं शीघ्रफलम् (देयम्) तदा ? तेषां स्फुटपाता भवन्ति, तस्मात्स्फुटपातान्मध्यमायोग द्विक्षेपो भवत्यर्याद्यदि स्फुटपाताद्विक्षेप:साध्यस्तदा स्फुटपाते स्फुटं ग्रहं संयोज्यं तस्माच्छरः साध्यः बुधशुक्रयोः शरसाधनाथं तयोः शीघ्रोच्चयोर्यथागतं स्फुटशघ्र फलं संस्कृत्य शीघ्रोच्चे स्फुटे कार्यं ततस्ताभ्यां तत्स्फुटपात सहिताभ्यां शरानयनं कार्यमिति = पातस्याना (ग्रहगोलीय क्रान्तिविमण्डलसम्पाताल) न्मन्दस्पष्टग्रहपर्यन्तं सपातमन्दस्पष्टग्रहः । मन्दस्पष्टग्रहो विपरीत शीघ्रफलसंस्कृतस्फुटप्रह- समस्तत्र पाते व्यस्तं शीघ्रफलं संस्कृत्य तेन (व्यस्त सीव्रफल संस्कृत पातेन) युतो हि स्फुटग्रहः सपातमन्दस्पष्टग्रहो भवति । बुधशुक्रयो ये पातभगणाः पठिता: सन्ति ते तयोः शीघ्रकेन्द्रभगणं धृतास्तदा वस्तम्भातभगणा भवन्ति, तत्र लाघवयं मल्पाः पठिताः सन्तीति प्राचीनोक्तिः । सिद्धान्त शिरोमणौ "येचात्र पातभगः पठिता अभूम्योस्ते शीघ्र केन्द्रभगश्चैत्रिका यतः स्युः । स्वल्पाः सुखार्थमुदिताश्चत हेन्द्र झुक्त पातौ तयोः पठितचक्रभवो विचेय को चलाद्विशोच्यः किल मैनहडिड्यं