पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चन्द्रश्रृङ्गोन्नत्यधिकारः

                                                                 ४९७
                       इदानोमध्यायोपसंहारमाह
               इति बाहुकोटिकर्णस्फुटसितपरिलेखसूत्रकर्णेषु ।
               आर्याष्टादश चन्द्रशृङ्गोन्नतिसप्तमोऽध्यायः ।।१८।
      
        सु. भा. – परिलेखसूत्रमेव कर्ण इति परिलेखसूत्रकर्णः । शेषं
स्पष्टार्थम् ॥१८॥
    
              मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्त ।
              हृदि तं विनिघाय नूतनोऽयं रचित: श्रृंगविधौ सुधाकरेण ॥
       इति श्री कृपालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतन-
तिलके श्रृङ्गोन्नत्यधिकारः सप्तमः ॥७॥
      वि. भा.- एवं भुजकोटिकर्णस्फुटसिताङ्गुलपरिलेखसूत्रकर्णेषु, अष्टादश-
भिरार्याभिच्चन्द्रश्रृङ्गोन्नतिनामकः सप्तमोऽध्यायोऽस्तीति ।।१८॥
 इति श्री ब्रह्मगुप्तविरचिते ब्राह्मस्फुटसिद्धान्ते चन्द्रशृङ्गोन्नत्यधिकारः सप्तमः ॥७॥
    
              अब अध्याय के उपसंहार को कहते हैं ।
     हि• भा• - इस तरह भुज, कोटि, कर्ण, स्फुट सिताङ्ग ल, परिलेखसूत्र (कर्ण)
में अठारह आर्याश्लोकों से- चन्द्रशृङ्गोन्नति नामक सप्तम अध्याय है ।
    श्री ब्रह्मगुप्त विरचित ब्रह्मस्फुट सिद्धान्त में चन्द्रशृङ्गोन्नति नाम का सप्तम
                      अध्याय सम्पूर्ण ॥