पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ ब्राह्मस्फुटसिद्धान्ते इदानीमिष्टग्रासात्कलानयनमाह प्रसकृदासकलोनप्रमाणयुतिदलकृतेविशोध्य कृतिम् । तात्कालिकविक्षेपस्य शेषमूलं कृतं तिथिवत् ॥ १३ ॥ प्रग्रहणस्थित्यर्धात् प्रोह्य प्रग्रहणतो भवेत् कालः । मौनं विशोष्य मोक्षस्थित्यर्धात् प्राग् भवेन्मोक्षात् ।। १४ ।। सु० मा०-शासकलोनप्रमाणयुतिदलकृतेप्रेसोनमानैक्यार्धवर्गात् तात्का लिकशरस्य कृति विशोध्य शेषशूलं तिथिवदमकृत् कृतम् । अर्थात् शेषमूलं षष्ट्या गुणं रविचन्द्रगत्यन्तरहृतं फलकालेन रविचन्द्र पातान् प्रचाल्य तात्कालि कविक्षेपं असाध्य तस्मात् पुनपुंसकलोनप्रमाणेत्यादिनाऽसकृद्यः शेषमूलकालः स्थिरीभवति तं प्रग्रहणस्थित्यर्धा स्पाशिकस्थित्यर्धात् प्रोह्य हित्वा ग्रहणतः स्पर्शादनन्तरं कालो भवेदर्धा स्पर्शानन्तरमेतावतीष्टकाले तावानिष्टग्रासो भवति । एवं तमेव कालं मोक्ष मोक्षसम्बन्धिनं मोक्षस्थित्यर्धद्विशोध्य शेषं मोक्षात् प्रागेवेष्टकालो भवेत्। अर्थात् मोक्षात् प्राक् तावतीष्टकाले तावानेवेष्टग्रासो भवेत् । एवमिष्टग्रासाद्विचेष्टकाल उत्पद्यते । एकः स्पर्शानन्तरमन्यो मोक्ष प्रागिति । अत्रोपपत्तिः । तत्कालशरस्याज्ञानान्मध्यकालिकशरात् कर्म कृतमतोऽस- कृद्विधिना स्फुटकालसाधनमुचितम् । शेषोपपत्ति 'पुंसो न मानैक्यदलस्य वर्गाद् विक्षेपकृत्या रहिता' दित्यादिभास्करविधिना स्फुटा ॥ १३१४ ।। वि. मा--ग्रासकलोनप्रमाणयुतिदलकृतेः ( ग्रासरहितमानैक्यार्धवर्गात् ) तात्कालिकशरस्य कृतिं (वर्ण) विशोध्य (हित्वा) शेषस्य मूलं तिथिवदसकृत् कृतमर्थात् शेषमूलं षष्टिगुणं रविचन्द्रयोर्गत्यन्तरभक्त फलकालेन रविचन्द्रपातान प्रचाल्य तात्कालिकचन्द्रशरं संसाध्य तस्मात् पुनपुंसकलोनप्रमाणयुतिदल कृतेरित्यादिनाऽसकृद्य शेषमूलं कालः स्थिरीभवति तं प्रग्रहणस्थित्यर्धात् (स्पा- शिकस्थित्यर्धात्) प्रोह्य (हित्वा) प्रग्रहणतः (स्पर्शादनन्तरं) कालो भवेदर्थात्स्प शनन्तरमेतावतीष्टकाले तावानिष्टग्रासो भवति, एवं तमेव कालं मौहू (मोक्ष सम्बन्धिनं मोक्षस्थित्यर्धात् विशोध्य शेषं मोक्षात् प्राक् (पूर्व) इष्टकालो भवेदर्थान ? मोक्ष प्राक् तावतीषु काले तावानेवेध्यासो भवेत् । एवमिष्टप्रासाद द्विवेष्टकाल

  • पवते, एकः स्पर्शानन्तरमन्यो मोक्षात्पूर्वमिति ॥ १३-१४॥ ।