पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः पूर्वेस्वस्तिकाञ्चरान्तरेऽधोलगत्यत उन्नतकाले तच्चरमाननीक्रियते तदा पूर्वस्वस्ति काद्रव्युपरिगतश्रुवप्रोवृत्तनाडीवृत्तयोः सम्पातं यावत्सूत्रचापं भवेदेतस्य ज्या सूत्र संज्ञकम् । दक्षिणगोले क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतध्रुवप्रोतवृत्तं नाडीवृत्ते पूर्वस्वस्तिकाच्चरान्तरं उपरिलमत्यत उन्नतकाले चरयोजनेन सूत्रचापं भवति, तज्ज्या सूत्रमर्थाद्व्युपरिगतध्रुवप्रोत मृत्तनाडीवृत्तयोः सम्पातात्पूर्वापरसूत्रोपरिलम्बः, ध्रु पूर्वस्वस्तिकं यावदुन्मण्डले नवत्यंशाः श्रवादेव रव्युपरिगतध्रुवप्रोतवृत्तनाडीवृत्तयोः सम्पातं यावत् ध्रुवप्रोतवृत्ते नवत्यंशाः नाडीवृत्ते सूत्रचापम् । एतदुभुजत्ररुत्पन्न- त्रिभुजस्य ज्याक्षेत्रं (त्रिज्याकर्णः सूत्रं भुजः, सूत्रकोटिज्या कोटिः) ध्रुवाद्रविं यावद् द्युज्याचापम् ध्रुवादुन्मण्डलाहोरात्रवृत्तयोः सम्पातं यावद् युज्याचापम् । अहोरात्र वृत्ते ध्रुव प्रोतवृत्तोन्मण्डलयोरन्तर्गतं चापमेतत्रिभुजस्य ज्याक्षेत्रेण (युज्याकर्णः रवितो निरक्षोदयास्तसूत्रोपरिलम्वः कलासंज्ञको भुजःकलामूलादहोरात्रवृत्तगर्भ केन्द्र यावत्कोटि) सजातीयमतोऽनुपातो यदि त्रिज्यया सूत्रं लभ्यते तदा द्युज्यया किमिति समागच्छति कला =सूत्रॐ द्यु रवितः स्वोदयास्त सूत्रोपरिलम्ब इष्ट हृतिः, स्वोदयास्तसूत्रनिरक्षोदयास्तसूत्रयोरन्तरमिहृतिखण्डं कुर्याऽस्ति, उत्तर गोले निरक्षोदयास्तसूत्रात्स्वोदयास्तसूत्रस्याधः स्थितत्वात् कुज्यया युता कलेट् हृतिर्भवेत् । दक्षिणगोले तु कुज्यया हीना कलेष्टहृतिः । ततस्त्रिज्याकर्णः अक्षज्या भुजः । लम्बज्या कोटिरिति भुजत्रयैरुत्पन्नमेकमक्षक्षेत्रम्। तथेष्टहृतिः कर्णः। इष्ट- शंकुः कोटिः शंकुतलं भुजः एतद्भुजत्रयैरुत्पन्न द्वितीयमक्षक्षेत्रमेतयोः सजातीय त्वादनुपातो यदि त्रिज्यया लम्बज्या लभ्यते तदेष्टहृतौ किं समागच्छतीशंकुः = लंज्या . इह एतेनोपपन्नमाचार्योक्तम् । सिद्धान्तशिरोमणौ भास्कराचार्येण ‘अथोन्नताह्नयुताच्चरेण कमादुदग्दक्षिणगोलयोज्य । स्यात्सूत्रमेतद्गुणितं द्यमौव्र्या व्यासार्धभक्तं च कलाभिधानम्” ऽप्यनेनाचार्योक्तानुरूपमेव कथ्यत इति अंब इष्ट शंकु के साधन को कहते हैं। हि. भा--दिनगतं और दिनशेष में जो अल्प रहता है वह उन्नत काल है, उत्तर गोल में उन्नत काल में चरार्ध को घटाने से और दक्षिण गोल में उन्नत काल में चंरार्ध को जोड़ने से जो होता है उसकी ज्या (सूत्र) को घुज्या से गुणा कर त्रिज्या से भाग देने से कला होती है, उत्तर गोल में कला में कुज्या को जोड़ने से और दक्षिण गोल में कला में कुज्या को घटाने से छेद (इष्ट कृति) होता है, इष्टहृति को लम्बज्या से गुणा कर त्रिज्या के. अयं देवे से इष्ट होता है इंति॥ २५.२६ ॥