पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ७ दनार्थमयमाह । केन्द्रफलभुक्तिज्यानतज्ययोर्वधाद्भवेद्वितिधृतिगुणाच्छशिनो नवनवः वेदगुणा व्यासार्थकृत्या यत्फलं लब्धं तत्स्वभुक्तौ कद धनं कदाणी वा क्रियते तन्न ज्ञायते तदर्थीमियमार्या । तद्यथा पूर्वक भाले क्षयः प्रथमे क्रेन्द्रपदे द्वितीये धनं तृतीये हानिश्चतुर्थे धनं रविस्फुटभुक्तौ यस्माद्दिनार्धपरिधिना भुक्तफलमानीतं प्राग्दिनार्धपरिधेश्चाधिकस्तात्कालिकोऽत्र परिधिरतोऽल्पमृणं कृतमासीदथुना फलान्तरं विशोध्यते । प्रथमे पदे द्वितीये तु पुनर्मुक्तौ धनं कृतमासीत्तदपि दिनार्ध परिधिना ततश्च तात्कालिकपरिधिरधिकोऽतोऽपं धनं कृतमासीत्तद्दिनार्धपरिचिना घनं परिधिश्च तृतीयपदे सदोनो दिनार्धपरिघेरतोऽधिकं धनं तिष्ठति तद्विशोध्यते । चतुर्थपदे भुक्तावृणं कृतमासीत्। दिनार्धपरिधिना ततश्च तत्कालिक- परिधिरल्पः षड्राश्यधिकत्वात् केन्द्रस्यातोऽधिकमृणं प्राकृतं तत् पुनर्दीयते फलान्तरमेव पूर्वकृपाले रवेः पश्चाद्यथा रवेः प्राक्कपाले धनर्णकल्पनैव चन्द्रस्यापरकपाले यदि स्यादपरकपाले चन्द्रस्य ऋणपरिधिः को भवति दिनार्ध परिधेर्यतोऽधिकमपि ऋणं कतु युज्यते येन तात्कालिकपरिधिना संस्कृता भवति स्फुटभुक्तिः, द्वितीयपदे धनं यतो द्वितीयपदे भुक्तौ धनं कृतमासीत्तदधिकं कर्तुं युज्यतेऽधिकत्वात्तात्कालिकपरिधेस्तृतीयपदे भुक्तौ धनं कृतमासीद्दिनार्धपरिधिना॥ ततश्च धनपरिधिरूनस्तात्कालिकोऽतो बहुधनं कृतं तिष्ठति तत्पुर्नावशोध्यते फलान्तरं चतुर्थपदं चंद्रभुक्तावृणं कृतमासीत्, दिनार्धपरिधिना, ततस्तात्कालिक परिधिनातः ऋणं बहुकृतमासीत्तपुनर्दीयते, फलान्तरमेवं । स्वकेन्द्रपदवशेन प्राक्क्रपाले तु पुनश्चन्द्रस्फुटभुक्तो धनक्षयक्षयधनानि स्वकेन्द्रपदेषु यत: शशिनः ऋणं परिधिरूनो दिनार्धपरिधेः फलं च दिनार्धपरिघिना यदानीतं तद्भुक्तेविशोधितं तत्पुनर्दीयते उपपन्नं प्रथमे पदे धनं द्वितीये पदेऽपि दिनार्धपरिधिना धनं कृत मासीत्तदधिकं यस्मात् तात्कालिकः परिधिरूनोऽतो यदधिकः ॥३०॥ वि. भा.-दिनदलपरिधिस्फुटतिथिनतकेन्द्रज्येत्यादिना यद्विकलात्मक फलमानीतं तद्गतौ कदा धनं कदा क्षय इत्येतदर्थं कथ्यते, प्राक्पाले रवेः केन्द्र- वशेन तानि फलानि क्षयधनहानिधनानि स्वगतौ (पूर्वेसाधितरविमन्दस्फुटगतौ). भवन्त्यर्थास्प्रथमे केन्द्रपदे क्षयः, द्वितीये केन्द्रपदे धनं, तृतीये हानिः (क्षय) चतुर्थे धनं स्फुटगतावित्यर्थः। पश्चात्कपाले चान्यथाऽर्थाय धनक्षयधनक्षयात्मकानि स्युः,इन्दोः (चन्द्रस्य)£ पश्चात्कपाले प्राव (पूववत्) अथोत् क्षयधनहानिधनानि भवन्ति, प्राक्कपाले धनक्षयक्षयधनानि भवन्ति चन्द्रमन्दस्पष्टगताविति ॥ ३० ॥ अत्रोपपत्तिः प्रथमपदे तृतीयपदे च केन्द्रज्योपचीयते, द्वितीयपदे चतुर्थपदे चापचीयते, रवेः प्राकपाले नतकम् ऋणं पश्चिमक्पाले च धनं भवति, अतः प्रथमपदे तृतीयपदे च ऋणफलस्योपचयान्नतकर्मान्तरमृणं द्वितीयपदे चतुर्थपदे च ऋणफुलस्यापुचयान्त