पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ ब्राह्मस्फुटसिद्धान्ते वि. भा.- अर्कफलभुक्तिघातात् ( रविमन्दफलग्रहगयोर्वेधात् ) भगण कलाभिर्भक्तात्प्राप्तं फलं भुजान्तरं (भुजान्तरकलाः) रविवत् ग्रहेषु संस्कार्यमद्य दागतं फलमतो ऋणं धनं क्रियते यतो मध्यमार्कोदयात् प्राक् स्फुटार्कोदयः स्यादृणे तत्फले स्वे यतोऽनन्त रम्, अतीतैष्यग्रहान्तरं (दिनान्तरस्पष्टग्रहान्तरं) वर्तमानेऽह्नि (वर्तमानदिने) स्फुटभुक्तिर्भवत्यर्थादद्यतनश्वस्तनस्फुटग्रहयोरन्तरमेव तत्समयान्तरे स्फुटगतिभंवतोति ।।२६।। अत्रोपपत्तिः मध्यमार्कोदयकालीना ग्रहा येन कर्मणा स्फुटकदयकालीना भवन्ति तदेव भुजान्तरकर्म, अहर्गणेन समानता ग्रह आचार्यमतेन लङ्कायां सूर्योदये मध्या भवन्त्यर्थान्मध्यमार्कोदयकालीनाः समागच्छन्ति, अपेक्षितास्तु स्फुटार्कोदय- कालीनाःमध्यमार्कस्फुटार्कयोरन्तरं रविमन्दफलकला, एतत्समा एव रविमन्द फलोत्पन्नासवः स्वीकृत श्राचार्येण ततोऽनुपातो यद्यहोरात्रासुभिग्रं हगतिकला लभ्यन्ते तदा रविमन्दफलकलासुभिः किं जाता रविमन्दफलकलासुसम्बन्धिनी ग्रगxरविमन्दफलकलासु , ऋणे मध्यमार्कोदयाप्रागेव ग्रहगतिः मन्दफले अहोरात्रासु स्फुटार्कोदयोऽतो समागतया रविमन्दफलकलासुसम्बन्धिन्या गत्या हीनो मध्यमार्कः स्फुटार्कोदये स्फुटार्को भवेत् । एवं तया गत्या हीना ग्रहाः स्फुटाकदयकालोना भवन्ति, धनात्मके रविमन्दफले मध्यमार्कोदयत्पश्चात्स्फुटाक़ोंदयो भवतितेन चालन फलेन युतो मध्यमार्कः स्फुटार्कोदये स्फुटार्को भवेत्, ग्रहा अपि चालनफलेन युता सन्तः स्फुटार्कोदये भवन्ति, अत्र स्थल्यं स्पष्टमेवास्ति, रविमन्दफलकला रवि मन्दफलास्वोः समत्वस्वीकारात् । तथा च रविमन्दफलासुसम्बन्धिन्या गत्या संस्कृतो मध्यमार्कोदयकालिकग्रहो नहि वस्तुतः स्फुटार्कोदयकालिको भवितुमर्हति (मन्दफलासुमध्येऽपि ग्रहस्य कापि गतिर्भवेत्तद्ग्रहणमत्र न क्रियतेऽतस्तज्जन्य- विकारसभावान्) वास्तवभुजान्तरज्ञानार्थं स एव विधिराश्रयणीयो यश्च पूर्वे वास्तवोदयान्तरज्ञानार्थं प्रदर्शितोऽस्ति तत्र प्राचीनोक्तोदयान्तरस्थानेप्राचीन भुजान्तरग्रहणं कर्तव्यमन्यत्सर्वं समानमेवेति। आचार्योक्तपणे भगणकलाशब्देना होरात्रासवो बोध्या इति, कस्याप्याचार्यस्य भुजान्तरकर्मसाधनं समीचीनं नास्ति पूर्वप्रदशीतयुक्त्यैव स्फुटमिति ॥ २६ ॥ अब भुजान्तरकों को और स्पष्ट गति को कहते हैं हि.भा.“रवि के मन्दफल और ग्रहणगति के घात में भगमुकला से भाग देने से जो फल होता है, वह भुजान्तर कला है, ग्रह में उसको रवि की तरह संस्कार करना अर्थात् कुणामक रविमन्दफल में मध्यमाकदय से स्फुटार्कोदय पहले होता है । इसलिये