पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगणेशाय नमः

सकलगरणकसार्वभौम-सर्वतन्त्रस्वतन्त्र-ग्रहादिवेधविधिज्ञ-श्रीब्रह्मगुप्ताचार्यप्रणीतः

ब्राह्मस्फुटसिद्धान्तः

विज्ञानभाष्योपपत्त्या तद्विन्द्यनुवचनिया च सहितः

मध्यमाधिकारः

तत्रादौ सकलगणकसार्वभौमः सर्वतन्त्रापरतन्त्रोऽद्वितीयो ग्रहादिवेधविधिज्ञो ब्रह्मगुप्ताचार्यो निर्विघ्नग्रन्थपरिसमाप्तये स्वेष्टदेमहादेवानुस्मरणरूपं मङ्गलाचररणमातनोति ।

जयति प्रणतसुरासुरमौलिगरत्नप्रभाच्छुरितपादः ।
कर्ता जगदुत्पत्तिस्थितिविलयानां महादेवः ॥ १ ॥

अथ भाष्यकृद मङ्गलं परामृशति

यद्दन्तोदन्तलक्ष्मीं दशसु विकरितुं दिक्षु सोमार्कतारा-
सारा स्फारप्रसारा अनुकलमुदयं यान्ति बिभ्राजमानाः ।
विघ्नक्षोणोध्रपक्षक्षपणाविममुं मङ्गलोदश्चिताङ्घ्रि-
न्यासं सिन्दूरभासं विनयविरचनैर्मन्महे सिन्धुरास्यम् ॥ १ ॥
सूर्याब्जारबुधेन्द्रवन्द्यभृगुजच्छायासुतान् खेचरान्
वाग्देवीं च निधाय चेतसि मुदा रामस्वरूपो बुधः ।
ब्राह्मग्रन्थपयोधिलङ्घनचकीर्षूणां कृते सश्रमं
सेवायामुपदीकरोति सुधियां विज्ञानभाष्यप्लवम् ॥ २ ॥
आर्यब्रह्मवराहभास्करमुखास्त्रिकन्धविद्याचणा
भट्टः श्रीकमलाकरोऽथ विबुधौ श्रीसेनलल्लाभिघौ ।
भूपेन्द्रो जयसिंहनामभृदसौ यो यन्त्रशिल्पी नव-
स्ते चान्येऽपि मुनीश्वरप्रभृतयः श्रद्धास्पदं नः परम् ॥ ३ ॥