सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः १३१ वि. भा. -द्वादशसहस्र १२००० भक्तेभ्यो गतवर्षे - ( कल्पगतवर्षे ) भ्यो ये लब्धास्ते गताः, गता द्वारा - (१२००० ) पतितास्तदा गम्याः (एष्याः) स्युरे तयोर्मध्ये येऽल्पास्ते द्विशत्या २०० भक्ता यल्लब्धं तत्त्रिभिः पञ्चभिर्गुणितं कलात्मकफलैः सदा क्रमेण रवचन्द्रौ हीन कार्यों, जीवे (वृहस्पतौ) चन्द्रवस्फलं देयमर्थाच्चन्द्रे यत्कलात्मकं फलमृणं तदेव वृहस्पतावप्युणं कार्यम् । तदेव ‘खजू न्ययमल २०० हृता इत्यनेनानीतं फल द्विहतं (द्वाभ्यां गुणितं) चन्द्रमन्दोच्चे हीनं कार्यं तदेव फलं पञ्चदशभिर्गुणितं सद्यद्भवेत्तच्छुकशीघ्रोच्चे होनं कार्य। तदेव फलं द्विपञ्चाशता ५२ गुणितं यद्भवेत्तद्बुधशीघ्रोच्चे ऋणं कार्यं तथा तदेव पूर्वफलं द्वि २ कु १ वेद ४ गुणितं गुणनफलं क्रमेण पानमङ्गलशनिषु ऋणं कार्यम् । ‘ीपुहूतं च बुधोच्चे डिकुवेदहतमित्यनेन’ यादृशो हि ( ऋणात्मकरूपः) संस्क रोऽभिहितो ब्रह्मगुप्तेन तद्विपरीत (धनात्मक) संस्कार“इन्दुना दस्रबणेः कराभ्यां कृतैरित्यादिना” सिद्धान्तशिरोमणीौ भास्कराचार्येणाभिहित इति ।।६०-६१ ।। इष्टग्रहभगणगुणादित्यादिब्रह्मगुप्तोक्तेन, चुचरचक्रहनो दिनसंचय इत्यादि भास्करोक्तेन वाऽऽनीतक्रान्तिवृत्तीयमध्यमग्रहतः स्फुटक्रियाकरणेन वास्तव स्फुटग्रहो नायति, परन्वस्मिन् मध्यमग्रहे बीजकमंजनतफलसंस्कारे कृते यो मध्यमग्रहस्तस्मात्स्फुटक्रियाकरणेन वास्तवस्फुटग्रह आयातीत्यागमवादिनो वदन्ति नात्र वस्तुतः प्रामाण्यम् । तत्रोपपत्त्यःऽऽनयनार्हः कतिचिद्दिनैरुपलब्यभूतः पदार्थों बजशब्दवाच्यस्तत्कर्म बीजकर्म इति, अथ तत्तत्पदार्थस्य सृष्ट्यादित आरभ्य षड् सहस्र ६००० वर्षपर्यन्तं वृद्धिस्ततोऽग्रे षट्सहस्रवर्षपर्यन्तं हास इत्यत्रागम एव प्रमाणम्। तेन सृष्ट्यादितः षट्सहस्रवर्षान्ते परमवृद्धिः । द्वादशसहस्रवर्षान्ते परमहंस इति फलितम् । एवं प्रतिद्वादशसहस्रत्रयं भवति, तेनेष्टकाले गता ये कतिचित्सौराब्दास्ते द्वादशसहस्रभक्ताः (प्रतिद्वादशसहस्रवर्षान्ते तत्प्रलयत्वा ) शेषादनुपातेन फलमानीय मध्यमग्रहे संस्कृते सति स्फुटक्रियाकरणह मध्यग्रहो भविष्यतीति । अथ यदि शेष < ६००० वर्षे तदा वृद्धञ्चभिमुखफलम् . यदि च शेष > ६००० वर्ष तदा ह्रासोन्मुखफलम् । यदा शेष < ६००० वर्ष तदा शेष < १२००० -शेष-शेषपरं द्वाभ्यामपि शेषभ्यामनुपातेन फलमेककाली न मेत्रातोऽइलाघवार्थमत्रा ‘ओं' स्मादेवानुपातकरणं युक्तम् । यदा च रो>६००० वयं तदा शे > १२०००-शेष= शेषं परन्त्वत्रापि द्वाभ्यामपि शेषाभ्यां फलमेककालीनमेवाऽत्राकुलाघवार्थमस्मादेवानुपातकरणं युक्तमतोऽनुपातः परमोपचयफल xशेष परमोपचयफल xशेष - ३० =फल, अत्र रव्यादीनां प्रहाणां ६००० २००