१०० ब्राह्मस्फुटसिद्धान्ते (+) ७०७० X १२६ उपपन्नमाचार्योक्तम् । रविमध्यमतुल्यावेव मध्यमबुधशुको भवतः। ‘रवेर- ग्रतः पृष्ठतो वा ह्यनुचराविव बुधशुक्रौ सदैव दृश्येते । अतो रविभगणसमा एव तयोर्भगणा भवन्ती"ति भगणाध्याये वासनाभाष्ये भास्कराचार्याः प्रोचुस्तदर्थे शिरोमणिद्रष्टव्यः । तथा च रांवमध्यमसमा एव कुजगुरुशनीनां शीघ्रोच्चभगणाः। तेषां शीघ्रोच्चं मध्यमरविरेव भवतीत्यपि भगणाध्याये प्रतिपादितं भास्करेण । इदानीं मध्यमचन्द्रनयनमाह त्रिगुणमवमावशेषं विभजेद् गुणसप्तशशिभिराप्तांशैः । पृथगधिकोऽर्को रविगुणतिथ्यंशैः संयुतश्चन्द्रः ।।४६। व. भा.-त्रिगुणमवमावशेषं विभजेत् । केरित्याह गुणसप्तशशिभिस्तत्र ये आप्ता अंशास्तेः पृथक् यथाधिकः कार्यः पूर्वमेव यदनष्टमवमावशेषं स्थापितं तत्त्रिगुणं कृत्वा गुणसप्तशशिभिविभजेत्। लब्धमंशाधिकं भवति द्वितीयस्थानस्थे रवौ योज्यमित्यर्थः । तत स तादृगक रविगुणिततिथ्यंशैश्च सहितश्चन्द्रो भवति । अहर्गेणानयनवर्तमाने मासे सितप्रतिपदादिका यास्तिथयो दत्ताः ता रविगुण द्वादशगुणिताः सत्यस्तिथय एव चन्द्रांशा भवन्ति तेश्चांशं संयुतोऽर्कः पृथस्थोऽवमफलसंस्कृतः कायं इत्यर्थः कृतोऽधचन्द्रो भवति । अयं वासना, रविचन्द्रौ द्वावधि अमावास्यान्ते तुल्यौ भवतः तत आरभ्य यावत्यस्तिथयोऽतीताः तावदन्तरं तयोः तिथौ द्वादशचन्द्रभागा भवन्ति, यस्माच्चन्द्रलिप्ताभिः खयम स्वरसंख्याभिस्तिथिः भचक्रत्रिंशांशेन चैतावत्य एव लिप्ता भवन्ति तिथयश्च त्रिशत् । तस्मादुपपन्नं रविगुणास्तिथयश्चन्द्रभगा भवन्ति । तैर्युक्तश्चन्द्रस्तत्र दिने मध्यमः तिथ्यन्तकालिकः भवत्यतोऽवमशेषेणार्कोदयकालिकः क्रियते । तद्यथा यदि सावनदिवसशेषेण यमनवरससंख्येनैकं चन्द्रदिनं चन्द्रदिनञ्च द्वादशभागा भवन्ति । तदेष्टेनावमशेषेण किमित्यत्र गुणकारिभागहरयोः तुल्यछेदस्त्रिस्वमुनि संख्यः तस्मिन् नष्टे प्रथमराशेश्चतुर्भागेन गुणसप्तशशिनो द्वितीयराशेश्चतुभगिन द्वादशानां श्रयो तत इष्टावमशेषस्य सर्वदा त्रिको गुणकारः। अग्नशशिनो भागहारः फलं भागादि चन्द्रमसः तत्तिथ्यन्तकलिके चन्द्रमसि संयोज्याकोदयकालिको संकायां भवतीत्युपपन्नम् । अनयैव विपरीतवासनया चन्द्रे ज्ञाते अवमवशेषमा नयेत् यो मध्यमः इति ॥ ४६ ॥ वि- भा.-अवमावशेषं (क्षयशेषं) त्रिगुणं गुणसप्तशशिभिः (१७३ एभिः) विभजेत्, लब्धांशैः पृथगकों युतो रविगुणतिथ्यंशेः ( द्वादशगुणिततिथ्यंशैः ) संयुतस्तदा चन्द्रो भवतीति ।v६॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/११७
दिखावट