मध्यमधिकारः ३ रित्यत्र त्रैराशिकं यदिति त्रिखमुनिसंख्यैश्चन्द्रदिनैरेकदशवमानि भवन्ति, तत्प्रतिमण्डलान्तादारभ्य यास्तिथयो गतः सविकलाः तासां किमित्यत एकादश गुणानां तासां त्रिखसंख्यो भागहारः । एवं स्थिते रविमण्डलान्ते यदवमशेष तत्तत्र योज्यते यतः शुद्धिविशोधनकाले तन्न शोचितं यदेवावमशेषं तद्योज्यते, तदेव शुद्धे भवति, चन्द्रदिनान्युपरि शुद्धानि स्थितानि भवन्ति । अतोक्मांशास्त्रिागैणिताः सवर्णाः भवन्तीत्येवं सवणं योजयितुं प्राप्तः, एकादशगुणितासु तिथिषु यावदव मांशास्तेष्वेव तिथिष्वधिकास्तिष्ठन्ति ते च तिथिभिः सह एकादशगुणाः सम्पन्नाः अतस्त्रिखगेभ्य एकादशसंशाध्य द्विनवरसा एवावमांशश्नां गुणकारः स्वच्छेदो भागहरश्च फलं रुद्रगुणितासु तिथिषु प्रयोज्यावमशेषं राशिर्भवति । ततस्त्रिखा- गैविभज्योनरात्रा लभ्यन्ते शेषामिष्टदिने सावनमवशेषं लब्धोनरात्रांश्च रवि मण्डलान्तात् गततिथिगणात् विशोध्य रविमेषाद्यहर्गणो भवतीत्युपपन्न' सचा हर्गेण मुनिहतशेषोऽब्दपत्यादि यो ग्रहो भवति, ततोऽपि यो द्वितीयः सावनाधिपो भवति यतः सविकलोऽहर्गण इति ॥४२-४३४४ ।। वि. भा–कल्पादेयं गतोब्दास्तेषां गतवर्षसम्बन्धिदिनाद्यानाञ्च योगः सूर्याद्योऽदाघिपः (रव्यादिवर्षपतिः) भवति, अब्दभगणवधः (कल्पगतवर्षकपग्रह भेगणघातःकल्पाब्दहृतः (कल्पवर्षभक्तः) तदा सूर्यभगणान्ते (सौरवर्षान्ते) भगणादिमध्यमा ग्रहा भवन्ति चैत्रशुक्लप्रतिपदादितो वर्तमानमासेष्टतिथि पर्यन्तं यास्तिथयस्ताः शुद्धिरहिताः पृथक् (स्थानद्वये स्थापिताः) रुद्र (एकाद शभिः) गुणिताः यमनवरस ६६२ गुणितेभ्योऽवमांशेभ्यः (वर्षान्तक्षयशेषेभ्य:) स्वच्छेदेन (€६००) विभक्तेभ्यः फलयुताः, त्रिखागैर्हताः (७०३ एभिर्भक्ताः) फलावम विहीनाः पूर्वस्थापितास्तदा रविमेषादिद्युगण (यस्मिन् काले रविमॅर्षे याति तस्मात्कालादहर्गणः) भवति, मुनिहृल् (सप्तभक्तः शेषोऽब्दपत्यादि- र्भवतीति ।४२-४३-४४ अत्रोपपत्तिः एकस्मिन् वर्ष सावनदिनादयः=३६५।१५।३०।२२३० ततोऽभीष्टवर्षान्ते सावनदिनादयः=(३६५।१५३०।२२।३०) गव=३६५ गव+गव (१५३०। २२३०)=३६५ गव+गतवसंदिनादि=कल्पादित इष्टवर्षान्ते सावयवोऽहगंण- स्तत्र दिनादिबोधकं द्वितीयखण्डमेवास्ति, अत्र सप्तभक्तावशिष्टोऽहंगंणो वारनिया मकस्तेनात्र ३६५ यावत्सप्तभि विभज्यते तावद्पसममेव शेषम् । तेन कल्पगताब्द दिनयुत इत्युक्तं युक्तम् रव्यादिको वर्षपतिर्भवेत्कल्पादौ रविवरस्य सद्भावादिति । अथ रव्यब्दान्ते ग्रहानयनं क्रियते यदि कल्पवर्षों कल्पग्रहभगणा लभ्यन्ते तदा गतवर्यः किमित्यनुपातेन रविवर्धन्ते (सूर्येभगणान्ते) मध्यमा ग्रहः समागच्छ न्तीत्यत आचार्योक्तमुपपन्नम् ॥४२॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/११०
दिखावट