पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियंगझण्डः 281 _ निरिवला अविद्या यस्यां विद्यायां तया वा सिड विगलितनिविलाविद्य" सिडः । यो योगाभ्यासपरिपाकादुत्पन्नाद्यात्मसाक्षात्कारप्रकाशोऽनन्तरंमंत्र मुच्यते, न स स्थितप्रज्ञः; किंवद्वयास्मसाक्षात्कारप्रकारम् य ( साधक्र एव वस्थाविधं प्राप्तः सिद्धेः किंचिदर्वाचीनायामवस्थायां वर्तमानो यः सिद्ध प्रायो नाद्यापि सिध्यति स स्थितप्रज्ञ । नस्य चापतिनदेहस्य लक्ष- णाभिधानं युक्तमित्यर्थः । द्वितीयं चोचं परिहनि -न चेति । आरब्ध कार्यकर्मानपेक्षणे यसिध्यति, तदाह--तत्रेति । मोगेन कर्मक्षयापेक्षयां सर्वस्य चिरेणैवापवर्गः । तदनपेक्षायां च कस्यचित्तकालःकस्यचिचिरेण ; यस्य चिरेण तस्य चिरवमनूद्यावधिविशेषविधानमुपपद्यत इति भावः । । ननु यदाप्यारब्धकार्यकर्मक्षये भोगेन न प्रतीक्षते, तदापि विद्यया । अविद्याजकृत्तकर्मनिवृत्तौ तज्जन्यदेहस्यानन्तरमेव वियोगः; अतः कथं कस्यचित् चिरकालोऽपवर्ग इत्याशङ्कयाह--यथेति । नसंस्कारदिति ; तच्छब्देन भयं कम्पादि चोच्यते । भुज्यमानं विपाके प्रारब्धकार्यस्य कर्मणः फले ‘अहं शरीरी मोक्ता, इदं भोग्यम्' इति यः संस्कारो जातःतस्यानुवृत्तिः, तन्निबन्धनेत्यर्थः । संस्कारास्कायनुवृत्तौ दृष्टान्तमाह- कुलालेति । अत्र चोदयति--नन्विति । तत्र च दोषमाह – तथाचेति । अथ तदोषभयात् शक्रादिविभागदर्शनस्याबिंद्याहेतुकस्य विद्यया अविद्योच्छेदाद ननुवृत्तिरित्युच्यते, तदा क्षणमपि न बोक्रादिविभागदर्शनं स्यादिति स एव देहपातावधिश्रुतिविरोधः । सैषा उभयते दोषादुभयतःकाश रज्जुरित्युपमयोच्यत इत्याह--अथेति । तत्राननुवृत्तिपक्षमनभ्युपगम्यैवनु वृत्तिपक्षोक्तदोषं परिहरति-उच्यत इति । न च मूलकारणेति । मूल कारणं भयं ततो यथा कषादि साभिनिवेशं प्रबलनोरं तया तसंस्कार दित्यर्थः । एतच्च यथा कर्मणो मूलकारणस्य फलं साभिनिवेशं न तथा तत्संस्कारफलमिति वक्ष्यमाणविशेषोपयोगितयोक्तम् । तत एवेति ; रज्जुत्व दर्शनादेवेत्यर्थः । ननु क्षणिकं तत् अतः कथं क्रमेण निवृत्तिः उच्यते--यथा यागादेः क्षणिकादपूर्वाधनद्वारेण फलसिद्धिः, तथा तटंब दर्शनादपि संस्काराधानद्वारेण भयसंस्कारनिवृत्तिरित्यदोषः । वयमेव