101 मतेऽपि विद्यनन्त्यमाह-क्षणिकेति । अत्र सिद्धान्तमाह-न चेति । श्लोकार्थमुपपादयितुं मोक्षस्वरूपनिरूपणाय पृच्छति--क्रः पुनरिति । तत्र न तावदनामृतदेहाद्यनुत्पादो मोक्षः, तस्य प्रागभावत्वेनासाध्यत्वादित्याह यदीति । अशरीरं वावेति वावशब्दोऽवधारणार्थः । तदेवमसंभवादस्मि पक्षे निरस्ते सारेतरविभागाय अनेकान्मोक्षपक्षानुपन्यस्यति-अथेति । चैत्रग्रामयोरिति ; गतिपूर्वी संयोगलक्षणां ब्रह्मप्राप्तिमाह । आयन्निति ; गच्छन्नित्यर्थः । स यावादिति; मनसः क्षिप्रस्यैव ब्रह्मप्राप्त्यर्थमादित्यलेकं गच्छतो योगिनः क्षिप्रतामाह । एतई खल्वतेि मागेस्तुतेः । अर्चि रिति अर्चिरादिमार्गकथनम् । मधुकृतो मधुमक्षिकाः । विधूयेति अपनीये त्यर्थः । निरञ्जन इति ; देहादिव्यञ्जनरहित इत्यर्थः । योगव्यास्रवदिति; यथा योगबलेन प्राप्तागुणैश्वर्या व्याघ्ररूपेणात्मानं परिणमयन्ति, तद्वदित्यर्थः ‘बक्ष संपद्यते’ इत्यत्र दर्शनादित्यनुवर्तते । रागाद्यपकर्षण इति ; जपा द्युपाधिकल्पितरागापनयने ; रज्यते अनेनेति वा रागः जपादिरेव, तदप कर्षण इत्यर्थः । तत्र पृथक्खरूपस्य 'गतिपूर्वकब्रह्मप्राप्तिपलं तावत् दूषयति--तत्रेति। हेतुमाह-सर्वेति । चैत्रग्रामयोः प्राप्तिर्युक्ता ; न तु जीवब्रह्मणोः बह्मणः सर्वगतत्वात्; सर्वगतस्य च नित्यप्राप्तत्वादिति भावः । सर्वगतत्वं श्रुतिद्वयेन घटयति- तदिति । "‘तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाधतः" इति श्रुतिः "नित्यं विभुम्" इति च श्रुतिः बक्षणः सर्व गतत्वमाहेत्यर्थः । विभुम्' इत्यस्य विवरणं सर्वगतम् इति , । विविध भावाद्वा विभुरित्यपौनुरुक्त्यम् । किंच ग्रामाद्भिन्नस्य चैत्रस्य ग्रामप्राप्ति गैतिीर्वका युक्ता । जीवस्तु ब्रह्मणो नान्यो बलैव सन् । तस्मा- दष्यस्य गतिहेतुका न बखप्राप्तिरित्याह--अनन्यत्वाच्चेति । अनन्यत्वे हेतुमाह--तदिति । आत्मानं विज्ञाते सर्वमिदं विज्ञातं भवति” इति श्रुतिः जीवत्रक्षणोरनन्यत्वे घटते, नान्यत्वे । न ह्यन्यस्मिन्विज्ञातेऽन्य विज्ञातं भवति । अतोऽनन्यत्वम् । तथा “ तच्वमसि “ इति त्वमिति जीवमुद्दिश्य तदर्थीहरुषोऽनन्यत्वमुक्तम् । तया " अनेन जीवेनात्मना।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७९
दिखावट