पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलभूता प्रवृत्तिहेतुरिति सैव विधिः, नाध्यवसायादीति । लिडादिभिरभि- 1-8 घानादेवध्यवसायादिर्भविष्यति, किं विधिनेति चेत् , अत्राह-नाभिघानत इति । नाम्निधानत एषामुत्पत्तिः; अपितु प्रतीतिमात्रम् । न च प्रतीति मात्रत्रेण तेषां प्रवृत्तिहेतुत्वम् । न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्युक्तं विधिविवेके । उरपत्तिस्तु तेषामिष्टसाधनतायाःतेन सैव विधि रिति भावः अन्योऽर्थः अभिधीयतेऽनेनेत्यभिधानं लिङादिशब्द तत एवाध्यवसायोदेरुत्पत्तिर्भविष्यतीति किमिष्टसाधनतयेत्याशङ्क्याह--नामिधानत इति । न लिङदिशब्दादध्यवसायादेरुत्पत्तिः ; स ह्यध्यवसायादीपकः न कारकः । यदि तु कारकः स्यात्, वायुवदव्युत्पन्नमपि प्रेरयेत् अतश्च संबन्धव्युत्पत्यपेक्षा शब्द न स्यात्; न चैवम् इत्यपि विधिविवेक X ततो ह्यध्यवसायादिः; अन्योऽर्थः –’ममेदं कार्यम्’ इति यतो ऽध्यवसायः नियुक्तोऽस्मि ’ इति बुद्धिः, स एवालौकिको नियोगो विधिरिति यो मन्यते, तं प्रत्युच्यते । तत एवेष्टसाधनत्वादध्यवसादि र्भवति । अतोऽध्यवसायहेतावपि विधाविष्टसाधनतैव विधिः, न लौकिकोऽन्य इत्यर्थः । तथाहि-इष्टस्याभ्युपाये कृप्यादौ ‘ममेदं कर्तव्यम्' इति कर्तु बृद्धिलोके भवति । इष्टाभ्युपायाभावे चाकर्तव्यबुद्धिः । अतोऽन्वयव्यति रेकाभ्यां ते बुडी इष्टाभ्युपायानभ्युपायविषये गम्येते; तथाहि-- 'प्रवृत्तो ऽस्मि’ इति प्रवृत्तिहेतुप्रतीतिर्भवति ; न पुनर्वायुनेवात्मानं प्रवर्तितं मन्यत इति तवाप्यभिमतम् । न चेष्टसाधनताया अन्योऽलौकिकः संभवति, तस्या एव कृष्यादौ प्रवृत्तिहेतुताया लोके दृष्टत्वात् । न च लोके नृसामथ्र्यं प्रवृत्ति हेतुरहेतुः, अपितु अन्य एवालौकिक इत्यकस्मात्कारणं विना युक्तं वक्तुम् । लैकिकस्यागेनालौकिककल्पनायां प्रमाणाभावात् । इतश्च नालीौकिककल्पनो- चिता- यतः शब्देन तस्याभिधानमिष्यते । न चालैकिकस्याभिधानं संभवति, संबन्धाग्रहात् इत्युक्तं ‘पदं स्वधर्मे व्युत्क्षामेत्’ इत्यत्र । तत ऽध्यवसायःप्रारम्भः संकरपःततोऽनुष्ठानं, ततोऽनुष्ठितस्य समापनेत्ये- तंत्सर्वमिष्टसाधनत्वादेव भवति, नान्यस्मात् । इष्टसाधनतासद्भाव एव नियुक्तस्य प्रवृत्तेः यस्य कस्यचिदिष्टसाधनतामज्ञात्वा नियुजानस्यानाप्तस्य नियोगात् पुंसामप्रवृत्तेः । तस्मादिष्टसाधनतैव विधिः ।