214 बक्षसिडिव्याख्या कुत इत्याह-- इत्थमिति । भावादर्शने अभावदर्शनमिति यया त्वमास्थ, इत्थं सुषुप्तिमदमूर्छवस्थासु त्रैलोक्यदर्शनाभावात् तदभावदर्शन- श्रमः स्यात्; न चैवमस्ति । ननु सुषुप्तस्योपरतकरणग्रामस्य कथं श्रमः ? सस्यम् , अन्यथाख्यातिः करणजन्या; न त्वख्यातिः । अख्यातिवादी च भवानित्यभिप्रायेणेदमुक्तम् । ननु विवेकाख्यातिरपि स्मर्यमाणगृह्यमाणय र्भवति; ग च सुषुप्तस्य तौ स्तः ; अतः कथमख्यातिरूपोऽयं विभ्रमः ? उच्यते - भावाभावदर्शनश्रमे तौ न स्त इत्यनन्तरं वक्ष्यामः । तदेवं तावपि विना चेदभावदर्शनमत्र अमःततः सुषुप्तस्यापि त्रैलोक्यादर्शनेन तदभाव दर्शनश्रमः स्यादिति मन्वानेन इत्थं भवेत् सुषुप्त्यादौ’ इत्यतिप्रसङ्गा- पादने कृतमित्यदोषः i यः कश्चिदपि न परिच्छिनत्ति, न तस्य भ्रमो युज्येते; तथाहि--यत्र रजतमारोप्यते तमारोपविषयं शुक्तिकाम् आरोप्यं च रजतमजानानो न रजतभ्रमवान् भवति । ततः किमित्यत आह- नाभावेति । व्यवहारो व्यवहृत्; अभावेन हि सा विशिष्ट व्यवहत् , अभावव्यवहार इत्यर्थः; तदभावश्च न ओपदे न बुद्धिविषयावित्यर्थः । एतदुक्तं भवति-भावव्यवहाराभावे अमावब्यवहारश्रमस्त्वयेष्यते । तत्र भावब्यवहाराभावः शुक्तिकावदारोपविषयः अभावव्यवहारश्च रजतवदारोप्यः। न चाभावप्रमेयमिच्छतस्तौ ज्ञातौ । अतो भ्रमो न घटत इति । ‘नाभाव भिन्ना व्यवहत्’ इत्युपलक्षणम्; अभावबुद्धिरपि पूर्वछोंकनिर्दिष्टा वक्तव्या । अत एवाह---न च बुद्यभाव इति । अन्यथेति ; आरोपविषयारोप्याज्ञाने तु यदि द्वयोरज्ञानं ततोऽप्रतिपत्तिः ; अथारोपविषयमात्रस्य, ततो रजत स्मृतिः; अथारोप्यस्य, ततोऽनवधारितविशेषपुरोवर्तिद्रव्यसामान्यप्रतीति रित्यर्थः । अत्र चोभयाज्ञानादप्रतिपतिरेव स्यादित्यभिप्रेतम् ; स्मृतिसामान्य- प्रतिपत्ती तु प्रसङ्गादुक्ते । न च बुद्धयव इत्यादिना आरोपविषयाज्ञान- मुक्तम् । नाभावबुद्धिरित्यादिना चारोप्याज्ञानमिति विवेकः । अमावबुद्धः अभावव्यवहार इत्यमावो विशेषणम् ; बुद्धयभावः व्यवहाराभाव इत्यत्र तु विशेष्यः । तेन विशेषणस्येत्युपच्क्षणम्, विशेष्यस्यापि द्रष्टव्यम् । अदृष्ट ध्वन्तदृष्टिवत ’ इति दृष्टान्तश्र साध्यविकल इत्याह--तम इति । तत्र भूच्छायामिति पौराणिक दृष्टिमाश्रित्योक्तम् । तदुक्तं पुराणे
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४८
दिखावट