पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 209 ( सिध्यति । कथं च विशेषणमप्येकं प्रमाणमित्युक्तम् ' वद्धि प्रतिप्रमेयं । भिन्नमुच्यते ; न प्रमाणयोग्यत्वं नाम कश्चिदस्ति । अतः पारिशेष्यात्_ प्रमाणमेव विशेषणमुपलक्षणं वास्थेयमिति मन्यते । प्रमाणयोग्यतां विना कथमर्थस्य प्रमेयत्वमिति चेत् ; न, प्रमाणसामर्यादेवातीतानागतवदुपपत्तेः। न ह्यतीतानागतयोरसतोः प्रमणयोग्यत्वमस्ति, असति धमीिण धर्मानुपपत्तेः । अतश्च प्रमाणयोग्यत्वमेव विशेषणमस्तु, किं सत्तयेत्युक्तम् । किंच सत्तापहवन्यायेन प्रमाणयोग्यत्वमप्येकं तैर्नेष्टम्, तेषामानन्त्येन एकशब्द प्रवृत्तावनिमित्तत्वात् । यदपि प्रतिप्रमेयं प्रमाणं मित्रं न त्वेकमित्युकम्, तदपि पाचकादिवदुपपत्तेरयुक्तमित्युक्तम् । इदानीमर्थक्रियायाः सच्छब्दप्रवृत्ते विशेषणत्वोपलक्षणत्वे निरस्यति- योऽपीति । यदर्थक्रियावत् तत् सत्_ । तत्राङरजन्मनः प्राक् बीजं । ‘सत्’ इति नोच्येत । अथ बीजप्रत्यक्षे बीजमपि जनकम् अन्यथे न्द्रियसामर्थाविशेषान्न तन्नियताथे स्यात् ; अतोऽपि खविषयप्रमाणजनन मेवार्थक्रिया ; तते बीजं “ सत्' इति व्यपदेक्ष्यत इति चेत् , तन्न; एवं हि प्रमाणजननाख्यामर्थक्रियां विज्ञाय पश्चात् ‘अस्ति’ इति बुद्धिः स्यात् न प्रमाणादेव ; न चैवम्; विज्ञायमानमेव बीजम् ‘अस्ति’ इति ज्ञायत इत्यर्थः । अथ निर्विकल्पं प्रत्यक्ष प्रमाणम् । ‘अस्ति 'बुद्धिस्तु शब्दानु वेधात् सविकल्पिका । निर्विकल्पपूर्वकं च सविकल्पकम् । अतः प्रमाणोत्तर काल एव ‘अति’ बुद्धिः, न प्रमाणादेवेत्युच्यते ; एवं तर्हि लिङ्गाङ्मादै रग्न्यादौ ‘अस्ति’ बुद्धिर्न स्थादित्यर्थः अनुमनं न तत्र पृष्ठमाविनिर्विकल्पकमस्ति, यज्जननेनार्थक्रियया पश्चात् ‘ अस्ति इति बुद्धिः सविकम्पिका स्यादिति भावः । अथोच्यते-यद्यप्यनुमाने निर्विकल्पकं नेष्यते, तस्य सत्ता चास्तिबुध्द्या न गृह्यते ; तथापि कार्येण कारणमनुमेयम् । अतश्च 'अस्येदं कार्यम्’ इति निर्णीतधूमादिकार्यसंबन्ध मवअग्न्यदिलिंजेन धूमादिना अनु पश्चान्नम्यते । धूमादिकार्यवत्तालक्षणैव सत्ता धूमादिकार्थवत्तया गम्यत इत्युक्तं भवतीत्यत्राह-तथाहीति । कार्य वत्ता सत्ता । सा चेदन्यादेर्धातैव, किं परमधिकमनुमीयते ? कर्यवंतयैव च कार्यवत्तावगम्यत इत्यशोभनम् , एकस्य साध्यसाधनत्वविरोधादिति भावः । एतेनाज्ञातैव कार्यवत्ता कार्यवत्तयानुमास्यत इत्यपि प्रत्युक्तम् ; 14