पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

182 ब्रह्मतिविव्याख्या स्वपक्षे कल्पनालाघवमुपपादयितुमुपक्रमते-इदमिति । मेदवादिनोऽत्यन्त भिन्नासु व्यक्तिषु कथं ‘गौरैः’ इत्यभेदावभासः ? न हि | निर्निमित्तं ज्ञानं भवति । न च भेद एवाभेदज्ञानस्य स्वरूपेण निमित्तम् ; 'गामानय इत्युक्ते च यां व्यक्तिमानयति पुनरुक्ते तत्सामान्यमेवानयति, न यां कांचिदश्वादिव्यक्तिमपि ; सोऽयमत्यन्तभेदे कथमनुवृत्तावभासो व्यवहारश्र? अथ गोव्यक्तीनां सादृश्यादनुवृत्तावभासव्यवहारः, तदयुक्तम्यतः

सादृश्य

मप्यवयवसामान्यान्वयेन भवति, न चात्यन्तभेदवदिनः सोऽस्ति । अथ गोव्यक्तीनामन्योन्यव्यावृत्तिर्न गृह्यते, गृह्यतेऽश्वादिव्यक्तिभ्यः ; तेन गोव्यक्तिषु भिन्नाप्यनुवृत्तावभासव्यवहारःतदविशेषेऽपि नाश्वदिव्यक्तिषु संभवति ; भवति च सत्या अपि गोव्यक्तीनां व्यावृत्तेरप्रहणं गुञ्जाप्रवाल रागयोरिव सुक्ष्मत्वेनेत्युच्यते ; तदसत्; यतस्तव व्यावृत्तिनीम भावानां खभाव एव, न ततो भिन्ना ; तत्र तस्या अग्रहणे तस्वभावानामप्यग्रहणं स्यात् ; अन्यथा तत्त्वभावतैव न स्यादिति भावः । अथ निर्विकल्पकत्वेन प्रत्यक्षमनिश्चयात्मकम् ; सविकल्पकं तु निश्चयामकम् ; तच्चाप्रत्यक्षम् । अतो निश्चयप्रत्यक्षयोः खरूपभेदः । तेन गोव्यक्तिषु प्रत्यक्षासु तखभावभूतान्योन्यव्यावृत्तिरपि यद्यपि प्रत्यक्षा, तथापि तनिश्चयाभावादनुवृत्तावभासव्यवहारौ भवत इति चेत् ; तदसत् ; यतो व्यावृत्तेरनिश्चये गोसामान्यनिबन्धन एव व्यवहारः स्यात् , न विशेषान्तरव्यावृत्तः ; स च दृश्यते; तथाहि–‘कालाक्षीमानय’ इत्युक्ते गवान्तरव्यावृत्तामेव गामानयति; न च तद्वचावृत्तेरनिश्चये युज्यते । तस्मान्नैषोऽपि पक्षः साधुः । अथैका गोब्यक्तियमर्थक्रियां दोहनादिः लक्षणां करोति तामेवापरा; ततश्च यथैका अश्वादिभ्योऽतत्कारिभ्यो व्यावृत्ता तथा परापीत्यतत्कारिध्यावृत्तेस्तुल्यत्वात् गोव्यक्तिष्वत्यन्ताभि खप्येकरूपावभासव्यवहारो भवतीति चेत् ? तदपि न शोभनम् ; यतो यैकस्या गोव्यक्तेरर्यक्रिया न सैवापरस्याः; नापि तजातीया, तेज़ते रनिष्टत्वात् । अतो गोव्यक्तीनां नैकार्थक्रियाकारित्वम् अतश्च यथैकस्या । गोव्यक्तेरतदर्थक्रियाकारिणो व्यावृतिः, एदं गोव्यक्त्यन्तरावपि, तस्यापि तत इति कायमतत्कारिव्यावृत्तिस्तुल्या ? फिंच न्यावृत्सिर्वस्तुनः स्वभावयेत् ,